________________
तिलकमञ्जरी।
कादम्बरीसहोदर्या सुधया वैबुधे हृदि । हर्षाख्यायिकया ख्याति बाणोऽन्धिरिव लब्धवान् ॥ २७ ॥ [पथ्या] माघेन विनितोत्साहा नोत्सहन्ते पदक्रमे । स्मरन्ति भारवेरेव कवयः कपयो यथा ॥२८॥[पथ्या ]
amnaram
टिप्पनकम्-पुनरपि बाणकविं वर्णयितुमाह-लब्धवान् प्राप्तवान् । कः ? वाणः। काम् ? ख्याति प्रसिद्विम् । कया? हर्षाख्यायिकया उच्छासनिबद्धा कथैवाख्यायिका, हर्षस्य राज्ञ आख्यायिका, तया, सुधया अमृते. नेवाऽऽह्लादकत्वात् । क ? हृदि मनसि । किम्भूते ? वैबुधे विशिष्टा बुधाः-पण्डिता विबुधाः, तेषामिदं धैबुधं तत्र । किम्भूतया? कादम्बरीसहोदर्या कादम्बरीकथाभगिन्या, एकजनकत्वात् । क इव कया? अब्धिरिव समुन्द्र इव, सुथया अमृतेन । किम्भूतया? हर्षाख्यायिकया हृष्टिकथिकया। क्व ? हृदि । किम्भूते ? वैबुधे देवसत्के । तयाऽपि किम्भूतया? कादम्बरीसहोदर्या सुराभगिन्या, द्वयोः समुद्रे उत्पन्नत्वात् ॥ २७ ॥
टिप्पनकम्-नोत्सहन्ते नोद्यमं कुर्वन्ति । क ? पदक्रमे सुबन्ततिङ्गन्तपदन्यासे, काव्यकरणे इत्यर्थः । कवयः कवितारः । कीदृशाः सन्तः ? विनितोत्साहाः भन्नोद्यमाः । केन ? माघेन काव्येन, कविनाऽतिगम्भीरार्थपदरचितमहाकाव्यत्वात् । तर्हि किं कुर्वन्ति ? स्मरन्ति ध्यायन्ति । कस्य ? भारवेरेव, माघतुल्य इत्यर्थः। क इध नोत्सहन्ते स्मरन्ति च ? कपयो यथा । वानरा नोत्सहन्ते क्व? पदक्रमे पदन्यासे । किम्भूताः सन्त: ? विनितोत्साहाः भन्नोद्यमाः, केन ? माघेन माघमासेन, अतिशीतेन । केवलं स्मरन्ति ध्यायन्ति । काः? भाः रश्मीन् । कस्य? रवेः आदित्यस्य, कदा रवेः रश्मयः प्रकटीभविष्यन्तीति ॥२८॥
- परागाभिधा विवृतिः-तावतैवासन्तुष्य भूयोऽपि तमेव कविमभिष्टौति-कादम्बरीसहोदर्येति । 'बाणः कादम्बरीसहोदर्या सुक्ष्या हर्षाख्यायिकया वैबुधे हृदि अब्धिरिव ख्याति लब्धवान्' इत्यन्वयः । बाणः अनुपदवर्णितः कवि. वरेण्यः । कादम्बरीसहोदर्या कादम्बर्याः-तन्नाच्याः स्वप्रणीतकथायाः, सहोदर्या-भगिन्या, कादम्बरी-हर्षाख्यायिकयोः कथयो णकविरूपैकजनकजातत्वेन स्त्रीत्वेन च परस्परभगिनीत्वोपचारात् । सुधया अमृतवदाखायरसया । हर्षाख्यायिकया हर्षस्य--हर्घनाम्नो नृपतेः, आख्यायिकया-उपलब्धार्धया कथया। वैबुधे विशिष्टयुधसम्बन्धिनि, सहृदयसम्बन्धिनीत्यर्थः । हृदि हृदये। ख्यातिम् अमन्दरसस्यन्दकत्वेन प्रसिद्धिम् । लब्धवान् प्राप्तवान् । क इव? भब्धिरिव आपो जलानि धीयन्ते यस्मिन्नसावब्धिः समुद्रः, स इव, स यथा कादम्बरीसहोर्या कुत्सितमम्बर नीलवर्णत्वादिति कदम्बरम् , तदस्यास्तीति कदम्बरो बलरामः, तस्येयं कादम्बरी मदिरा, तस्याः सहोदर्या-भगिन्या, सुधा मदिरयोः समुद्ररूपैकजनकजातत्वेन मिथो भगिनीलात् , हर्षाख्यायिकया सुखाभिव्यजिक्रया, आखादसमय एव सुखोदयात् । सुधया उन्मध्य समुद्रादुद्धृतेनाऽमृतेन । वैबुधे देवसम्बन्धिनि, हृदि हृदये, ख्यातिं सुधारसाखादसुखप्रयोजकत्वेन प्रसिद्धिम् , लब्धवान् तथा । . अन श्लेषानुप्राणितोपमालङ्कारः । “सुरा हलिप्रिया हाला परिसुदरुणात्मजा । गन्धोत्तमा प्रसन्नेरा कादम्बर्यः परि ता" ॥ इति, "पीयूषममृतं सुधा" इति, “समुद्रोऽब्धिरकूपारः" इति चामरः ॥ २७ ॥ . परागाभिधा विवृतिः-माघकविना सम भारदिकविं कपिश्लिष्टविशेषणसाम्यविच्छित्त्या स्तौति-माघेनेति । 'यथा कपयः [ तथा ] माघेन विनितोत्साहाः कवयः पदक्रमे नोत्सहन्ते, [ किन्तु ] भारवेरेव स्मरन्ति' इत्यन्वयः । माघेन माघनाम्ना प्रसिद्धिमासादितवता शिशुपालवधं प्रणीतवता कविवरेण । विनितोत्साहाः तदीयकाव्याद् उत्तमस्य तत्समस्य वा स्वकीयकाव्यस्याऽसम्भावनया भग्नकाव्यप्रणयनाध्यवसायाः । कवयः काव्यकाराः । पदक्रमे पदानाम्-विभक्त्यन्तशब्दानाम् , क्रमे पौर्वापर्येणानुक्रमणे, काव्यरचनायामित्यर्थः । नोत्सहन्ते न प्रवर्तन्ते, प्रत्युतापकीर्तिभिया कौतुकेन किञ्चिद् विरच्यापि ततो निवर्तन्ते । किन्तु भारवेरेव भारविनामानं कविमेव । स्मरन्ति शिशुपालवधतुल्यमदसीयकिरातार्जुनीयमहाकाव्यमवलोक्य माघकवितुल्यत्वेन ध्यायन्ति, कर्मणः शेषत्वविवक्षयाऽत्र षष्ठी बोध्या । क इव ? कपयो यथा वानरा इव, ते यथा माघेन माघमासेन, कार्यकारणयोस्तादात्म्यात् तज्जन्यशीतेनेत्यर्थः, विनितोत्साहाः निरस्तसंचारोद्यमाः, पदक्रमे पादक्षेपे, कचि.