________________
तिलकमञ्जरी।
दृष्ट्वा वाक्पतिराजस्य शक्ति गौडवधोद्धराम् । बुद्धिः साध्वसरुद्धेव वाचं न प्रतिपद्यते ॥ ३१ ॥ [पथ्या] भद्रकीर्तेभ्रंमत्याशा: कीर्तिस्तारागणाध्वना । प्रभा ताराधिपस्येव श्वेताम्बरशिरोमणेः ॥ ३२ ॥ [ पथ्या ]
टिप्पनकम्-बुद्धिः मतिः, न प्रतिपद्यते न गृह्णाति-न स्वीकरोति, काम् ? वाचं वचनम्, काव्यकरणे में प्रवर्तते । कथम्भूतेय ? साध्वसरुद्धव भयनिषिद्धेव । किं कृत्वा ? दृष्ट्वा भवलोक्य । काम् ? शक्तिं सामर्थ्यम् । कस्य ? चाक्पतिराजस्य बृहस्पतिराजस्य । किम्भूताम् ? गौडवधोद्धरां गौडवधो नाम-अतिशायिगाथाकोशकाव्यशास्त्रम्, तत्र उद्धराम्-उद्भटाम् । अन्यत्र वाक्पतिराजस्य जयवर्मराजस्य, शक्ति प्रहरणविशेषम् , दृष्ट्वा, किम्भूताम् ? गौडवधोद्धरां गौडानाम्-गौडनृपानाम् , यो वधः-घातः, तत्र उद्धराम्-उद्भटाम् , बुद्धिः साध्वसरुद्धच वाचं न प्रतिपद्यते, भयेन मुखाद् वचनं न निःसरतीत्यर्थः ॥ ३१॥
टिप्पमकम्-भद्रकीतः बप्पभट्टाचार्यस्य । भ्रमति पर्यटति । का? कीर्तिः। काः? आशाः दिशः । केन ? तारागणाध्वना तारागणाभिधानकाव्यमार्गेण । किम्भूतस्य भद्रकीते: ? श्वेताम्बरशिरोमणेः श्वेतपटमुनिनायकस्य, कस्येव का भ्रमति ? प्रभा कान्तिः, यथा ताराधिपस्य चन्द्रस्य भ्रमति । काः? दिशः। केन? तारागणाध्वना भाकाशेन । ताराधिपस्य किम्भूतस्य ? श्वेताम्बरशिरोमणेः श्वेतश्वासौ मम्बरशिरोमणिश्च आकाशमूर्धरत्नं च स तथोक्तस्तस्य, भाकाशभूषणस्येत्यर्थः ॥ ३२॥
अत्रापि श्लेषानुप्राणितोपमालङ्कारः । “भवः सत्ताऽऽप्ति-जन्मसु । रुद्रेश्रयसि संसारे", "भूतिस्तु भस्मन्नि । मासपाकविशेष च सम्पदुत्पादयोरपि” इति चानेकार्थसङ्ग्रहः ॥ ३०॥
परागाभिधा विवृतिः-अथ गौडवधकाव्यरामणीयकोन्मीलनमुखेन तत्प्रणेतारं वाक्पतिराजनामानं कविमुपश्लोकयति-दृष्टेति । 'वाक्पतिराजस्य गौडवधोद्धरां शक्तिं दृष्ट्वा साध्वसरुद्धव बुद्धिर्वाचन प्रतिपद्यते' इत्यन्वयः । वाक्पतिराजस्य तदन्वर्थनाम्रो गौडवधकाव्यं प्रणीतवतः कवेः । गौडवधोद्धरां गौडव-गौडवधकाव्यप्रणयने, उद्धराम्-उद्-उत्कृष्टा धू:भारो यस्या ताम् , द्रढीयसीम् । शक्तिं प्रतिभाख्याम् । दृष्टा अनुभूय । बुद्धिः कविजनानां शेमुषी प्रतिभा । साध्वसरुद्धव साधवीऽस्यन्से निरस्यन्ते समीहितसिद्धरपि येन तत् साध्वसमू-भयम् , तेन, अपकीर्तिभयेनेत्यर्थः, रुद्धा-कुण्ठिता, इवेत्यस्प्रेक्षा । वाचं काव्यभावानुभाविनीं भारतीम् । न प्रतिपद्यते न प्राप्नोति, न स्फूर्तिपथमवतारयितुं पारयतीत्यर्थः । यद्वा वाक्पतिराजस्य अनुपदोक्तकाव्योपाख्यातस्य यशोवर्मराजस्य । गौडवधोद्धरां गौडवधे-गौडदेशीयनृपवधक्रियायाम् , उद्धराम्-प्रागल्भ्यपूर्णाम् , शक्तिम् अस्त्रविशेषं सामर्थ्य वा । दृष्ट्वा निरीक्ष्य । बुद्धिः तद्दर्शकानां मतिः । साध्वसरुद्धव भयरुद्धव । वाचं तद्वर्णनपरां वाणीम् । न प्रतिपद्यते न प्राप्नोति मुखानिर्गमयितुमित्यर्थः ।
अत्रोत्प्रेक्षालङ्कारः, समृद्धिवर्णनादुदात्तालङ्कारश्च । "शक्तिरायुधभेदे स्यादुत्साहादौ बले श्रियाम्” इति, “आशङ्का साध्वसं दरः" इति चानेकार्थसङ्ग्रहः ॥ ३१॥
परागाभिधा विवृतिः-श्रीबप्पभट्टाचार्यवर्यमुपवर्णयति-भद्रकीतैरिति । 'श्वेताम्बरशिरोमणेस्ताराधिपस्य भन्दकीर्तेः प्रभाः कीर्तिस्ताराधिपस्य प्रभा इव तारागणाध्वना आशा भ्रमति' इत्यन्वयः । श्वेताम्बरशिरोमणेः श्वेत्तम्-शुभ्रम्, अम्बरम्-वस्त्रम् , येषां ते श्वेताम्बराः, जैनमुनिविशेषाः, तेषां शिरोमणेः-शिरोमुकुटस्य, श्रेष्ठस्येत्यर्थः । ताराधिपस्य ताराणाम-एकदेशन्यायेन तारकाणाम . संसारसागरादत्तारकाणां मुनिजनानामित्यर्थः । यद्वा ताराणाम-खदर्शने व्याप्रियमाणानां भक्तजननमनकनीनिकानाम् , यद्वा ताराणाम्-निर्मलमौक्तिकानाम्, उपचाराद् निर्मलमौक्तिवनिर्मलतावतां श्वेताम्बरधारित्वेन साध. शिरोमणित्वेन च विशदधवलवसनाऽऽचरणादीनाम् , अथवा ताराणाम्-उच्चतमदेशनाध्वनीनाम् , अधिपस्य स्वामिनः। भद्रकीतेः अन्वर्थतदपरनामकस्य श्रीबप्पभट्टाचार्यस्य । प्रभा प्रकृष्टा भा-द्युतिर्यस्याः सा, 'ताराधिपस्य' इत्यस्य 'प्रभा' इत्यस्य च पूर्वत्राप्यन्वय ऊहनीयः । कीर्तिः कवित्वकीर्तिः । तारागणाध्वना तारागणः-तन्नामकस्तत्प्रगीतकाव्यग्रन्थः, तद्रूपेण अध्वना
wwwwww