________________
तिलकमञ्जरी। प्रस्तावनादिपुरुषो रघु-कौरववंशयोः । वन्दे वाल्मीकिकानीनौ सूर्याचन्द्रमसाविव ॥ २०॥ [नविपुला ]
टिप्पनकम्-प्रथमकवित्वालोके वाल्मीकि-व्यासयोनमस्कारमाह-वन्दे स्तुवे, कौ ? वाल्मीकि-कानीनौ। किम्भूतौ ? प्रस्तावनादिपुरुषो प्रस्तावनायाम्-वर्णनायाम् , मादिपुरुषी-प्रथमनरौ । कयोवर्णनायाम् ? रघुकौरववंशयोः रघुवंश-कौरववंशवर्णनं ताभ्यामेव प्रथम कृतमित्यर्थः । काविव वन्दे ? सूर्या-चन्द्रमसाविव रविचन्द्राविव, तावपि प्रस्तावनादिपुरुषो प्रस्तावनाप्रारम्भप्रवृत्तिः, तस्यामादिपुरुषो, कयोः ? रघु-कौरववंशयोः रघु-कौरववंशो ताभ्यां वृत्तावित्यर्थः ॥ २० ॥
नृपे वन्दितुं तत्र याते वितण्डां वितम्बानो मिथ्यामतिर्नमुचिलघुमुनिना पराजितः, अथ नमुचिनिशाचरो निशि तं हन्तुं सत्र गतवान् , शासनसूर्या स्तम्भितः प्रातर्जनैस्तथा दृष्टे लजयाऽपि पराजितः पलाय्य हस्तिनापुरे महापद्मयुवराजसाचिव्यमाचचार, दुर्दमारिमर्दनप्रसादितमहापद्मादु घरमासाद्य न्यासीचकार च। अथैकदा त एवाचार्या हस्तिनापुरमायाताः, तदभ्यर्णे पद्मोत्तरनृपविष्णुकुमारी प्रव्रज्या प्रतिपसौ गुरुणा सह विहृतौ च, तत्राद्यो ययौ शिवम् , अपरोऽनल्पलब्धीनामब्धिरजनि, महापद्मश्च चक्री राज्यधुरां दधार । दैवयोगादेकदा त एव सुव्रताचार्या ग्रामानुग्राम विहरमाणा हस्तिनापुरं चतुर्मासीकृते समायाताः, विष्णुकुमारमुनिश्च मेरुं गतः, अवसरमासाद्य सचिवाधमेन नमुन्चिना महापद्मपसकाशाद् बरं याचितम् , यदुत-मया महायज्ञो विधेयो। ऽस्ति, तत्समाप्तिं यावदशेषो राजाधिकारो मधं वितरणीय इति, चक्रिणा प्रतिपन्नम्, तदनु कैतवमाकलय्याचार्या देशत्यागमादिष्टाः, नितरामनुनीतेनापि नमुचिना नामुचि नीचादेशतिः, आचार्मुनिद्वारा मेरोराहूतेन विष्णुकुमारमुनिना नम्रगिरा बोधितोऽपि नामुश्चन्नमुचिराग्रहम् प्रान्ते नृपायजत्वमुपवर्ण्य कैतवान्निवासाय पादत्रयमितभूमिदानमुक्तवांश्च, विष्णुकुमारमुनिस्तु लक्षयोजनमितदेहं विकुऱ्या नमुचि मयां निपात्य पादमेक पूर्वस्मिन् पादमेकमपरस्मिन् जम्बूद्वीपस्य पर्यन्ते न्यस्य विश्वं भये निचिक्षेष, तदनु तदनुकम्पया देहं संचुकोच च, चक्रिणा सचिवाधमो निर्वासितः, मुनीन्द्रश्च कर्माणि क्षपयित्वा मुक्तिमन्दिरं विवेश, लोकैश्च विष्णुकुमारमुनिवरस्य 'त्रिविक्रम' इति नामान्तरं निर्मितमिति संक्षिप्तमितिवृत्तम् ॥ १९ ॥
परागाभिधा विवृतिः--अथ स्वसम्प्रदायबाह्यावपि वाल्मीकि-व्यासौ लोके प्रथमकवित्वादभिष्टौति-प्रस्तावेति । अत्राप्यन्वयः सुगमः । रघु-कौरववंशयोः रघुः-सूर्यवंश्यो दिलीपजन्मा नृपतिविशेषः, कौरवः- कुरुनान्नश्चन्द्रवंश्यस्य नृपतेरपत्यं धृतराष्ट्रादिः, तद्वंशयोः-तत्पित्रपत्यादिपरम्परयोः, प्रस्तावनादिपुरुषो प्रस्तावनायाम्-रामायण-महाभारताभ्यां वर्णनायाम् , आदिपुरुषो- आदिकवी । वाल्मीकि-कानीनौ वाल्मीको नाम कीटपटलसंघटितो मृत्तिकाराशिः, तस्य मुनिरूपेणापत्यं वाल्मीकिः, रामायणप्रणेता महार्षिरित्यर्थः, कानीन:-कन्याया अपरिणीताया अपत्य कानीनः, महाभारतप्रणेता व्यास इत्यर्थः, तौ वन्दे स्तौमि । काविव ? तद्वंशयोः प्रस्तावनादिपुरुषो सूर्या-चन्द्रमसाविव तयोरपि तद्वंशयोः प्रस्तावना-प्रारम्भस्तत्रादिपुरुषत्वात् , सूर्यतो रघुवंशस्य चन्द्रतः कुरुवंशस्य च प्रारम्भात् । 'सूर्या' इत्यत्र "वेदसह०" [ ३. २. ७९.] इति दीर्घत्वम् ।
ब्राह्मणवंश्योऽपि वाल्मीकिर्वने निलीय लुण्टाकवृत्या जीवनासीत् , स कदाचन गच्छतः सप्तर्षीन् प्रत्यपि स्ववृत्तिमुपदशेयन्नमीभिरतिभर्सनमुखेन तेन पथा खप्रत्यागमनपर्यन्तमेकाग्रमनसैकेनैवासनेन रामेति मन्त्रं अपितुमादिष्टो यथाक्रम जपितुमशकुवन् मरेति व्युत्क्रमेण जपितुमारेभे, ततः कतिपयकालोत्तरं कीटनिचयसंचितमृत्कणैस्तदुपरि कुशकण्टकोपचितो वल्मीको बभूव । अथ तपसि समाप्यमाने कुतश्चित् प्रत्यागतैः सप्तर्षिभिर्बल्मीकमपास्योद्धृतोऽसौ वाल्मीकिनाम्ना प्रसिद्धः, सिद्धश्चादिकविरभूदिति पौराणिकं वृत्तम्।
कुतश्चिदागच्छन् भगवान् पराशरः कामपि नदी तारयितुमाशप्तेन धीवरेण कार्यान्तरध्यापृतेन तत्र नियुक्त कन्यका तारुण्यपूर्णामवेक्ष्योदीर्णमदनो मत्स्यगन्धामपि मजलगन्धा कुरूपामपि सुरूपां सम्पाद्य तदानी दिनमपि नीहारधारासम्पातै रजनिप्रायं विधाय चोपबुभुजे, ततश्च भगवान् व्यासो बभूवेति पौराणिकी वार्ता।
अत्र श्लेषानुप्राणितोपमालङ्कारः। “कानीनः कन्यकासुते कर्णे व्यासे" इत्यनेकार्थसङ्ग्रहः ॥२०॥