________________
टिप्पनक-परागविवृतिसंवलिता सत्यं बृहत्कथाम्भोधैबिन्दुमादाय संस्कृताः । तेनेतरकथाः कन्थाः प्रतिभान्ति तदप्रतः ॥ २१ ॥ [ पथ्या ] जितं प्रवरसेनेन रामेणेव महात्मना । . तरत्युपरि यत्कीर्तिः सेतुर्वाङ्मयवारिधः ॥ २२॥ [पथ्या]
टिप्पनकम्-[ नेह व्याख्यातम् ] ॥ २१ ॥
टिप्पनकम्-जितं जयः प्रातः कतिमध्ये । केन ! प्रवरसेनेन कविना । कीदृशेन ? महात्मना बृहत्तरेण । यत्कीर्तिः यस्य यशः । कोऽसौ ? सेतुः सेतुबन्धशास्त्र कीर्तिहेतुत्वात् कीर्तिः । किम् ? तरति प्लवते । क्व ? उपरि उपरिष्टात् । कस्य ? वाङ्मयवारिधेः निःशेषशास्ववृन्दमहोदधेः, सकलशास्त्राणामुपरि वर्तत इत्यर्थः । केनेव ? रामेणेवं यथा रामेण-दशरथात्मजेन जयः प्राप्तो लोकमध्ये । तेनापि कथम्भूतेन ? प्रवरसेनेन, तथा महात्मना पूज्येन विष्णोरवतारांत् । यत्कीर्तिः सेतुबन्धः गिरिकृतः, तरति प्लवते, न निमजते । क्व तरति ? उपरि, कस्य ? वारिधे लवणसमुद्रस्य ॥ २२ ॥
परागाभिधा विवृतिः-अथ गुणाढ्यकविप्रथिता बृहत्कथा प्रशंसति-सत्यमिति । 'इतरकथा बृहत्कथाम्भोधेबिन्दुमादाय सत्यं संस्कृताः, तेम तदप्रत इतरकथाः कन्थाः प्रतिमान्ति' इत्यन्वयः । इतरकथाः इतरकविनिबद्धाः कथाः । बृहत्कथाम्भोधेः बृहत्कथा नाम पैशाचवाचोक्तकविनिबद्धोऽतिविस्तृतकथाविशेषः, सैवानेककथानकरूपरत्नाकरत्वात् बृहत्त्वाचाम्भोधिः समुद्रस्तस्मात् । बिन्दु कथालेशम् । आदाय उद्धृत्य । सत्यम् अवश्यमेव । संस्कृताः संस्कारमापाद्य संस्कृतप्राकृतगद्यपद्यात्मना प्रणीताः । तेन तस्माद्धेतोः । तदनतः तस्याः- बृहत्कथायाः, अग्रतः-पुरस्तात् । इतरकथा कन्थाः जीर्णविविधवसनखण्डमयाः प्रावरणविशेषाः । प्रतिभान्ति अन्यदीयखण्डात्मकत्वेन तत्सादृश्यात् तदभेदेन प्रतीयन्ते ।
अत्र रूपकालङ्कारः । “कन्था पुरे प्रावरणे" इत्यनेकार्थसङ्ग्रहः ॥ २१ ॥
परागाभिधा विवृतिः-अथ श्रीप्रवरसेनकवि श्रीरामचन्द्रोपमाचमत्कारेणोपवर्णयति-जितमिति । रामेणेव महामना [ तेन } प्रवरसेनेन जितम् , यत्कीर्तिः सेतुझियवारिधेहपरि तरति' इत्यन्वयः । अत्रोत्तरार्होपात्तयच्छन्दानुरोधेन पूर्वार्धे 'तेन' इत्यध्याहृत्य योजनीयम् । महात्मना कविताकौशलशालिना । तेन प्रवरसेनेन प्रवरसेननाम्ना सेतुबन्धाख्यकथाकृता कविना । जितम् अतिकमनीयकाव्यरचनया कविजगति महोत्कर्षः प्रापि । कुतः ? यत्कीर्तिः यत्प्रणीता कीर्तिः-कीर्तिहेतुत्वेनोपचारात् कीर्तिरूपः, सेतुः नामैकदेशे नामोपचारात् सेतुबन्धनाम्नी कथा । वानयवारिधेः वाचो विकारा वाङ्मयानि शास्त्राणि, तान्येव विविधाश्ररत्नाकरत्वाद् वारिधिः-जलधिः, तस्य उपरि उत्कृष्टकोटौं, तरति प्लवते, प्रसिद्ध्यतीत्यर्थः । नेव ? रामेणेव यथा महात्मना, प्रवरसेनेन प्रवरा-पराक्रमवती, सेना-हनूमत्प्रमुखा यस्य तेन रामेण-~-दशरथात्मजेन श्रीरामचन्द्रेण, जितं योद्धजनेषत्कर्षः प्राप्तः, यद्वा जितं रावणादिबलमभिभूतम् । कथम् ? यत्कीर्तिः यदीयकीर्तिहेतुः, सेतुः लङ्कागमनाय तन्मार्गस्थसागरोपरि कपिप्रणीतः सेतुबन्धः, वारिधेः समुद्रस्य उपरि ऊर्श्वभागे, तरति प्लवते, बौद्धास्मनाऽद्यत्वेऽपि विद्यमानत्वाद् वर्तमाननिर्देशः ।
अत्रापि श्लेषानुप्राणितोपमालकारः ॥ १२ ॥