________________
टिप्पनक-परागविवृतिसंवलिता सत्कथारसवन्ध्येषु नियन्धेषु नियोजिताः । नीचेष्विव भवन्त्याः प्रायो वैरस्यहेतवः ॥१८॥ [पथ्या ] नमो जगन्नमस्याय मुनीन्द्रायेन्द्रभूतये । यः प्राप्य त्रिपदी वाचा विश्वं विष्णुरिवानशे ॥ १९॥ [ पथ्या ]
टिप्पनकम्-तथा यत्र कुत्रापि शास्त्रेऽर्था न योजनीया इति दर्शयति भवन्ति जायन्ते । अर्थाः भभिधेयाः । कीदृशा भवन्ति ? वैरस्यहेतवः विगतशृङ्गारादिरसकारणभूताः । कथम् ? प्रायः बाहुल्येन । किम्भूताः सन्तः ? नियोजिताः संघटिताः । केषु ? निबन्धेषु शास्त्रेषु । कीदृशेषु ? सत्कथारसवन्ध्येषु सन्तः-शोभनाः, ये कथारसा:-शृङ्गारादयः, तैः वन्ध्येषु-शून्येषु । केष्विव ? नीचेष्विव यथा नीचेषु-हीनेषु, नियोजिताः समर्पिता:अर्थाः धनानि, प्रायो भवन्ति, कीदृशाः? हेतवः, कस्य ? वैरस्य विरोधस्य । किम्भूतेषु नीचेषु? सत्कथारस. वन्ध्येषु सताम्-सत्पुरुषाणाम् , कथा-वार्ता, तस्या रस:-भादरः, तेन वन्ध्येषु-रहितेषु नीचस्वादेव ॥ १८ ॥
टिप्पनकम्म थ गौतमगणधरस्य नमस्कारमाह-त्रिपदी पूर्ववद् व्याख्येया ॥ १९॥
परागाभिधा विवृतिः-अथोक्तरूपा कथा स्वरूपतस्तथा भवतु, तदार्थास्तु अविश्रान्तरूपेणाप्यधिगताः श्रोतृणाम. नुरजनाय कल्पेरन्नित्यत आह-सत्कथारसवन्ध्येष्विति । 'नीचेष्विव सत्कथारसवन्ध्येषु निबन्धेषु नियोजिता अर्थाः प्रायो वैरस्यहेतवो भवन्ति' इत्यन्वयः । सत्कथारसवन्ध्येषु सन्तः--आस्वादश्लाघ्याः, ये कथारसाः-शृङ्गारादयः, तद्वमध्येषु-तदप्रसविषु, तदनभिव्यञ्जकेष्वित्यर्थः । निबन्धेषु काव्येषु । नियोजिताः निबद्धाः । अर्थाः शब्दार्था अपि, प्रायः बाहल्येन । वैरस्यहेतवः विगतो रसो रागो यस्यासौ विरसः, तस्य भावो वैरस्यम्, अरुचिरित्यर्थः, तस्य हेतवः-प्रयोजकाः, भवन्ति जायन्ते, रसपिपासूनां रोचकतामतिकामन्ति, अधिगतानामपि तेषामपर्यवसिततया रसानुपयोगित्वात् । अतथाविधानां तु केषाञ्चन श्रोतृणां कथञ्चन रोचकाः स्युरपीत्यतः 'प्रायः' इत्युक्तम् । केष्विव? नीचेचिव पामरेष्विव, यथा सत्कथारसवन्ध्येषु सताम्-उत्तमपुरुषाणाम् , या कथा-गुणकीर्तनम्, तत्र रसः-अनुरागः, तेन वन्ध्येधु-शून्येषु पामरेषु. नियोजिताः व्यथार्थ निक्षिप्ताः, अर्थाः धनानि, तेषां सदसत्प्रदानविवेचनशून्यत्वात् प्रायेण वैरस्य सत्खामिशात्रवस्य, हेतवो भवन्ति, तथा खामिनोऽपि पामरत्वे तु न तथेति “प्रायः' इति पदमुपयुज्यतेऽत्रापि पक्षे।
अत्रापि श्लेषानुप्राणितोपमालङ्कारः।।
"नीचः पामर-खर्वयोः" इति, "रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बोले रागे देहधातौ, तिक्तादौ पामरेऽपि च ॥ इति चानेकार्थसङ्ग्रहः ॥ १८॥
परागाभिधा विवृतिः--अथ कविविशेषस्तुतौ प्रस्तुतायामशेषसाम्प्रदायिककविखामिनं श्रीगौतमस्वामिनं नमस्यतिनम इति । अत्रान्वयः स्पष्टः । मुनीन्द्राय मुनीश्वराय । जगन्नमस्याय जगद्वन्याय । इन्द्रभूतये इन्द्रभूतिसंज्ञकाय
म' इति संज्ञान्तरप्रसिद्धाय,तम नमः नमस्काराऽस्तु, उत्तराधगतयच्छब्देनाकासितत्वात् पूर्वाध तत्पदाध्याहारः। यः त्रिपदीम् उत्पद्यते वा विगच्छति वा ध्रुवति वा' इत्येवंरूपं पदत्रयम् , प्राप्य श्रीमहावीरस्वामिसकाशादधिगम्य, वाचा खोपज्ञद्वादशाङ्गीरूपवाण्या, विश्वं निखिलं जगत् , आनशे व्याप्तवान्, निरूपितवानित्यर्थः, द्वादशान्यां निखिलजगन्निरूपणात् । क इव? विष्णुरिव कृष्ण इव, स यथा वाचा वराभ्यर्थनावाक्येन, त्रिपदी स्वपादत्रयप्रमितभूमिम् , प्राप्य बलिनृपतेः संकाशाल्लब्ध्वा, विश्वं मानवा-ऽऽकाश-देवलोकरूपम् , आनशे खत्वेन व्याप्तवान् आसीत् तथा, यद्वा विष्णुरिव विष्णुकुमार. मुनिरिव, स यथा वाचा खवचनेन, त्रिपदी पादत्रयप्रमितभूमिम्, प्राप्य निजानुजमहापद्मनृपमन्त्रिनमुचिसकाशादधिगम्य, विश्वं लक्षयोजनमितजम्बूद्वीपपूर्वापरपर्यन्तरूपं जगत् , आनशे व्याप्तवान् , आसीत् तथा।
हस्तिनापुरे पुरे पद्मोत्तरो नाम वसुधाधीशः, तस्य ज्वालादेवी महिषी, द्वौ च नन्दनौ, तत्राऽऽद्यः केसरिस्वप्नसूचितो विष्णुकुमारः, अपरश्च चतुर्दशमहाखानसूचितो महापद्मः, महीनाथेन महापद्मो युवराजपदवीं नीतः, तदानीमुज्जयिन्यां श्रीवर्मा नृपतिः, नमुचिश्चास्य सचिवः, अन्येधुरिह मुनिसुव्रततीर्थकरकरदीक्षितान् सुत्रताचार्यानुद्यानमायातानाकर्ण्य सचिवादिपरिवृते