SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-७ ३९३ स-श्रेणिकक्षितिपसन्मतिशासनेन, दुर्गन्धिकाधिगमनेन सुगन्धिवाक्यात् । मैल्यार्द्रभावियवनाङ्गजसन्निबोध स्तस्माद् बभूव भविनां मदनान्निरोधः ॥ ३९ ॥ अन्वयः --तस्मात् सुगन्धिवाक्यात् श्रेणिक क्षितिपसन्मतिशासनेन दुर्गन्धिकाधिगमनेन मैय्या स आर्द्रभावियवनाङ्गजसन्निबोधः भविनां मदनान्निरोधः बभूव ॥ व्याख्या - तस्मात् सुगंधिवाक्यात् शोभनसंबन्धयुक्तात् वाक्यात् उपदेशादित्यर्थः श्रेणिकक्षितिपसन्मतिशासनेन श्रेणिकवासौ क्षितिपश्चेति श्रेणिकक्षितिपः तस्य सन्मतिशासनेन सद्बुद्धिसदुपदेशेन नि योगेन दुर्गन्धिकाधिगमनेन दुर्गन्धिकाभिधानमहिषी चारित्रग्रहणेन मैग्या सौहार्देन स प्रसिद्धः अभयकुमार सौहार्देन आर्द्रभावि आर्द्रदेशोत्पन्नः यः यवनाङ्गजः यवनतनयः तस्य सन्निबोधः सज्ज्ञानम् भविनां भाग्यवतां मदनात् कामात् अभिलाषात् निरोधः निवृत्तिश्च बभूव जज्ञे सदुपदेशादेव दुर्गन्धिकाधिगमनं यवनकुमारबोधश्च बभूवेति भावः ॥ अन्यपक्षे - तस्मात्पूर्वोक्तादुपदेशात् सुगंधिवाक्यात् शोभनो लोकविलक्षणो गन्धः संबंधो यत्र स सुगंधिः "समासान्त इत्" स चासौ वाक्यश्चेति तस्मात् सदुपदेशवचनात् स श्रेणिकक्षिति पसन्मतिशासनेन समण्डलराजबुद्धि परिवर्त्तनेन दुर्गन्धिकाधिगमनेन दुः दुष्टः गंधः संबन्धो यस्याः सा दुर्गन्धा सैवदुर्गन्धिका तस्या अधिगमनेन सदसद्विवे केन मैन्याभावि मैत्र्यात् सर्वजनापकारराहित्येन सर्वप्रियत्वेन आर्द्रम् दयाकिनं भावोऽभिप्रायों येषान्ते मैत्र्याईभाविनः यत्रनः वेगवान् यः अङ्गजः क्रोधादिः मैत्र्याईभाविनश्व यवनाङ्गाश्च तेषां सन्निबोधः सज्ज्ञानं भविनां कल्याणवतां मदनात् कामात् सन्निरोधः कामुकता निवृत्तिश्च बभूव ॥ ३९ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy