________________
३९४
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
सानन्दधीऋषभवृत्तशमप्रवृत्ति,
नोसजमालिवदनं तदनन्तकायम् । सानन्दशङ्खचुलनीप्रियदीर्घवृत्त्या,
गोशालिभद्रचरितस्फुरितं जगाद ॥ ४० ॥
अन्धयः-सानन्दधीऋषभवृत्तशमप्रवृत्तिम् जमालिवदनम् तदनन्तकायम् नो सत् सानन्दशंखचुलनी प्रियदीर्घवृत्या गोशालिभद्रचरितस्फुरितं जगाद ॥१०॥
व्याख्या-आनन्दः आनन्दनामा श्रावकः तस्य धीः बुद्धिः तस्याम् ऋषभा श्रेष्ठा वृत्ता दृढा " वृत्तं वृत्तौ दृढे मृते " इति हैमः या शमप्रवृत्तिः शांतिभावसंचारस्तेन सहिता इति सानन्दधीऋषभ वृत्तशमप्रवृत्तिः ताम् जगाद अथ च जमालिवदनम् जमालेः प्रथम निवस्य वदनं, उद्यत इति वद्धातोः भावे अनद कथनं नो सत् न परमार्थसाधनयोग्यम् यतः अनन्तकायम् अनन्तानन्तशरीरसम्पादकम् सानन्दशंखचुलनीप्रियदीर्घवृत्या सानन्दः सप्रमोदः यः शंखः स च चुलनीप्रियश्च तयोर्द्वन्द्वः तस्य दीर्घवृत्या चिरवृत्त्या गोशालिभद्रचरितस्फुरितम् गोशालिभद्रस्य यच्चरितं चरित्रम् तेन स्फुरितम् विल. सितम् जगाद उपदिदेश ॥
अन्यतीर्थकरचतुष्टय पक्षे--आनन्देन सहिता धीर्येषां ते सानन्दधियः ते च ते ऋषभाः श्रेष्ठाश्चेति सानन्दधीऋषभाः "अविवक्षया न संधिः" तेषां वृत्ते व्यवहारे शमं प्रवर्तयति योजयतीति शमप्रवृ त्तिम् असजम् परस्परवाधसहितम् आलिवचनम् आलम् अनर्थोत्रास्तीति आलि तच्चवदनश्चेति आलिवचनम् नो नैव भवति तद् अनन्तकायम् अनन्तशरीरजनकत्वादेव न तथाभूतन्न सानन्दशंखचुलनीप्रियदीर्घवृत्त्या आनन्दयति श्रावकजनमनोह्लादयतीति आनन्दः शं सुखं. जनयतीति शंखः श्रेयस्करः चोलयति समुच्छाययतीति चुलनी यद्वा