SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ सागरतिलकादिप्रासादलक्षणाधिकारो नामैकोनसप्तत्युत्तरशततम सूत्रम् ।। ४३१ पूर्व भवेद् भूतिलकः शृङ्गं पश्चाण्डकं तथा ।। मकर ध्वजनामा च कार्यों रतिपतेरसौ ॥ २६ ॥ इति मकरध्वजतिलकः ॥ रम्भातिलकशृङ्गेषु प्रकर्तव्या नवाण्डकाः। तिलकान्तो मङ्गलोऽसौ कर्तव्यः सर्वदैवते ॥ २७ ॥ इति मङ्गलतिलकः ॥ शङ्गाणि चेन्द्रतिलके कार्याः पञ्चाण्डकास्तथा । तिलकाख्यस्तदा नाम कार्यः शान्तिमहोत्सवः ॥ २८ ।। इति तिल काख्यः ।। तथा शङ्गेषु कर्तव्याः सर्वभद्रनवाण्डकाः । पद्मको हि तदा नाम कर्तव्यः शान्तिश्रीप्रदः ॥ २९॥ इति पद्मतिलकः॥ मन्दरे तिलके शङ्गं कर्तव्याश्च नवाण्डकाः। तदा तु सोमतिलकः कर्तव्यः सर्वदैवते ॥ ३०॥ इति सोमतिलकः॥ पृथ्वीजये तु शृङ्गेषु प्रकर्तव्या नवाण्डकाः । नाम्ना त्रैलोक्यतिलक कर्तव्यः शान्तिमिच्छता ॥ ३१ ॥ इति त्रैलोक्यतिलकः ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां सागरतिलकादिप्रासादलक्षणाधिकारो नामैकोनसप्तत्युत्तरशततम सूत्रम् ।।
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy