SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ अपराजितपृच्छा नन्दनस्य च संस्थाने कोर्चे तिलकं न्यसेत् । प्रत्यङ्गे पार्श्वकर्णी च स स्याद् भूतिलकोऽर्थदः ॥ १३ ॥ __ इति भूतिलकः॥ कणे शङ्गद्वयं कुर्यात् प्ररथे तिलकं तथा । रम्भातिलक आख्यातः कर्तव्यः शान्तिमिच्छता ॥ १४ ॥ इति रम्भातिलकः॥ शङ्ग प्रतिरथे चैव का तिलक न्यसेत् । नाम्नाऽसाविन्द्रतिलकः पूज्य: सुरनरोरगैः ॥ १५ ॥ इतीन्द्रतिलकः ॥ मन्दर: पूर्ववज्यस्तिलकं प्ररथोव॑तः । प्रत्यङ्ग नष्टकर्ण च भद्रे शृङ्गत्रयं तथा ॥१६॥ इति मन्दरतिलकः॥ कर्तव्य तिलके शुङ्ग कर्णाचे तिलकं न्यसेत् । हिमवानिति नामाऽसौ कर्तव्यः सर्वशान्तिदः ॥ १७ ॥ इति हिमवन्ततिलकः । भद्रकर्णोद्गमे शङ्ग तिलक प्ररथोतः। कर्णोऽपि यदा शृङ्गनाम्ना कैलाससम्भवः ॥ १८ ॥ ___ इति कैलासतिलकः ॥ कर्णोधे तु तिलक स्याच्छङ्गं प्रतिरथोव॑तः । पृथ्वीतिलकनामाऽसौ पृथिवीतीर्थपुण्यदः ॥ १९ ॥ इति पृथ्वीतिलकः ।। पृथ्वीजयस्य संस्थाने नन्दिको तु कर्णिका । तद्पा कर्णपार्ने च द्विशृङ्ग कर्णानुगे ॥२०॥ को च शङ्गतिलकं भद्रं शङ्गे चतुर्भवम् । प्रत्यङ्गे चाऽष्टकार्याणि रेखोवें तिलकं तथा ॥ २१ ॥ इति त्रिभुवनतिलकः ।। तथैव कुर्याच्छङ्गं च तिलकं प्ररथो_तः । इन्द्रनीलस्तदानाम कर्तव्यः शान्तिमिच्छता ।। २२ ॥ इतीन्द्रनीलतिलकः ॥ भद्रे कणे च शङ्गाणि शेषं वै पूर्ववत् स्थितम् । सर्वांगतिलको नाम कर्तव्यः सर्वदैवते ॥ २३ ॥ इति सर्वाङ्गतिलकः॥ शतप्रतिरथोत्रं च रेखोचे तिलकं शुभम् । सुरवल्लभ आण्यातो धर्मकामार्थसाधकः ॥ २४ ॥ इति सुरवल्लभतिलकः ।। हर्यादितिलके शङ्ग कार्याः पञ्चाण्डकास्तथा । कर्तव्यः सिंहतिलकः पार्वत्य शान्तिमिच्छता ॥ २५॥ इति सिंहतिलकः॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy