SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ (१४०) चन्द्रकलादिषट्पञ्चाशच्छतद्वयरे खानिर्णयो नाम चत्वारिंशदुतरशततमं सूत्रम् ॥ विश्वकर्मोवाच समः सपादः सार्धश्च पादोनद्वय एव च । द्विगुणश्चार: प्रकर्तव्यः सपादः सार्धद्विगुणः ॥ १ ॥ पादोनत्रयश्च तथा त्रयश्चैव पदाधिकः । सार्धत्रयश्च पादोनचतुष्कं च चतुर्गुणम् ॥ २॥ सपादं सार्धं चतुष्कं तथा पादोनपञ्चकम् । त्रिखण्डादावष्टादशान्ता चैषां युक्तिर्विधीयते ॥ ३ ॥ त्रिखण्डादौ कलाश्चाष्ट आद्यन्ते चतुर्वर्द्धयेत् । अष्टादश्यामष्टषष्टी प्रथमाघः खण्डयोजिता ॥ ४ ॥ समसपादादिक्रमैर्यावत् पादोनपञ्चकम् । स्कन्धस्थाने चारः कलासाधना क्रमयोगतः ॥ ५ ॥ लम्बनासूत्र योगेन भवेद्रेखा तु नागरी । घण्टिकायां क्रमयोगे विमाने भूमिजेऽथवा ॥ ६ ॥ नामानि गुणदोषांश्च रेखाणां कथयाम्यतः । अनुक्रमेण वक्ष्यामि शृणु चैकाग्रमानसः ॥ ७ ॥ शशिनी शीतला सौम्या शान्ता चैध मनोरमा । शुभा मनोभवा वीरा कुमुदा पद्मशेखरा ॥ ८ ॥ ललिता लीलावती चैव त्रिदशा पूर्णमण्डला | पूर्णभद्रा च भद्राङ्गी षोडशैव प्रकीर्तिताः ॥ ९ ॥ त्रिखण्डा: १६ शान्तिनी च शुभा शान्ता त्रिदिवा देवदुर्लभा । बीभत्ला च शिवा सौम्या वीरभद्रा नारायणी ॥ १० ॥ सुधिरा शेखरा रम्या पूर्णा व पूर्णभद्रिका | विजया तत्र विज्ञेया द्वात्रिंशश्चैव सङ्ख्यया ॥ ११ ॥ चतुष्खण्डाः १६ लक्ष्मिणी श्रीः सम्भवा च विदूरा पूर्णमण्डला । सुगन्धा मानसी शैला नन्दा नन्दाक्षी कौतुका ॥ १२ ॥ शान्तिर्लाभा च कल्याणी सुभद्रा च भद्रेश्वरी । अष्टचत्वारिंशदेखा इत्थं चैव प्रकीर्तिताः ॥ १३ ॥ पञ्चखण्डाः १६ कामिनी कमला पद्मा संभ्रमा भ्रमशेखरा । शुभा व सारसम्भूता वैदेवी राजशेखरा ॥ १४ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy