SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ३१३ अपराजितपृच्छा त्रिपदोजाङयकुम्भश्च द्विपदः कर्णकस्तथा। अन्त:पत्रं चेकपादं त्रिपदा ग्रासपट्टिका ॥ १५ ॥ जाउयकुम्भः सार्धपादो द्विपदः कर्णकस्तथा । अन्तःपत्रं पादमेकं खुरकः पाद एव च ॥ १६ ॥ उदयं पञ्चधा कृत्वा जाडयकुम्भस्तु पादतः । पादोनयुग्मा कर्णाली सपादं गजपीठकम् ॥ १७॥ नरपीठं पदं विद्याद भूमिजे पीठकोच्छ्यः । निर्गमश्च त्रिभिर्भागः कर्तव्यः सर्वकामदः ॥१८॥ इति भूमिजप्रासादपीठलक्षणम् ॥ अपराजित उवाच अलङ्कार स्वरूपं च कथितं परमेश्वर । विचित्रकाश्च प्रासादा येषांयुक्तिर्विधीयते ॥ १९ ॥ स्वल्पद्रव्यः संयतात्मा सोत्साहो धर्महेतवे। तद्रव्ययुक्तिमानं च कथ्यतां भुवनेश्वर ॥ २० ॥ विश्वकर्मोवाच हीनद्रव्ये शिवभक्ता ये कुर्वन्ति शिवालयम् । तस्यानुक्रमयुक्तिं च कथयाम्यपराजित ॥ २१॥ गजाश्वनरपीठाद्यमल्पद्रव्ये न संभवेत् । जाडयकुम्भश्च कर्णाली प्रशस्ता सर्वकामदा ॥ २२ ॥ जायकुम्भः कर्णकश्च ऊचे वै शीर्षपत्रिका । शिरःपाली विनात्वेवं कर्ण पीठं तु कारयेत् ॥ २३ ॥ ___ इति साधारणपीठप्रमाणम् ॥ वराटे भूमिजं कुर्याल्लतिने चैव नागरम् । सान्धारे नागराख्यं च मिश्रके च विमानके ॥ २४ ॥ लतिनं निर्गमेहींनं साधारं निर्गमाधिकम् । विमान भागतुल्यं च मिश्रकं तत्सम तथा ॥ २५ ॥ पलभ्यां भूमिजं मानं फांसाकारे च द्राविडम् । दारुजे भूमिजाख्यं च नागरं च रथारहे ॥ २६ ॥ पीठं च पीठकाकारं जगत्स्थावरजङ्गमम् । सृष्टिपीठोद्भवं पीठं मेरोराधारकारणम् ॥ २७ ॥ व्योम्नश्च पृथिवी पठिं मेरुस्तस्य च मेखला । मेघार्णवे ततः पीठ जलमाधार उच्यते ॥ २८॥ तारिका लिङ्गपीठान्ते गजपीठं तदुच्यते । भावानुभावयन् पीठे तत्पीठमनुसंस्थिते ? ॥२९॥ ४० अ.
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy