SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ २९.८ अपराजित पृच्छा अग्रशाला तु तद्रूपा सर्वालङ्कारसंयुता । विजयप्रभेति नाम्ना सा चादित्यसमप्रभा ॥ १२ ॥ इति विजयप्रभा || इति सूर्याजगत्यः ॥ पञ्चविंशतिर्विस्तार आयामः पञ्चत्रिंशतिः । भागो भवेत्कर्णो भद्रं चैव त्रयोदश ॥ १३ ॥ वामदक्षिणभद्राणां विभागाः सप्तविंशतिः । निर्गमे कर्णतुल्यानि सर्वभद्रेष्वयं विधिः ॥ १४ ॥ अपरस्यर्जुसूत्रेण प्रासादः पञ्चभागिकः । शुकाश्च भवेद्भागो मण्डपः सप्तविस्तरः ॥ १५ ॥ द्वारत्रयं मण्डपस्य जगतीनां तु कारयेत् । गण्डशुण्डिका सोपानं पूर्वमानेन कल्पितम् ॥ १६ ॥ चतस्रः कर्णशालाश्च कर्तव्याश्च सुलक्षणाः । वसुन्धरीति तन्नाम देवानां सततप्रिया ॥ १७ ॥ इति वसुन्धरी ॥ पूर्वे च भद्रकोणे व शाले द्वे तु मनोरमे । हरिप्रियेति तन्नाम सिद्ध किन्नरसेविता ॥ १८ ॥ इति हरिप्रिया ॥ तथापरे यथापूर्वे शालां कुर्यान्मनोरमाम् । राजेश्वरीति तन्नाम वन्दिता त्रिदशैरपि ॥ १९ ॥ इति राजेश्वरी ॥ त्यक्त्वा चापभद्रे तु द्वे च याम्योत्तरे विदुः । पार्थिवीति तु तन्नाम पूजिता सुरकिन्नरैः ॥ २० ॥ इति पार्थिवी || पुनश्चापभद्रे तु शाला: कुर्यान्मनोरमाः । सरस्वतीति तन्नाम पूजिता देवदानवैः ॥ २१ ॥ इति सरस्वती । पुरतो ह्यशाला च कर्तव्या सर्वकामदा | कुसुमाख्येति सा चैवमाख्याता वास्तुवेदिभिः ॥ २२ ॥ इति कुसुमाख्या ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy