SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ (११९) सूर्यस्थपार्थिव्यष्टजगती लक्षणात्मक मे कोनविंशत्युत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच L. चतुर्विंशतिर्भागाः स्युः षट्त्रिंशतिर्मुखायता । चतुर्भागो भवेत् कर्णः प्रतिरथस्तु तत्सम : ॥ १ ॥ द्वौ द्वौ भागौ तु निष्कासो भद्रे चैव प्रतिरथे । अष्टभागात्परं भद्रं विंशतिर्वामदक्षिणे ॥ २ ॥ चतुर्भागं द्वारमानं सोपानपङ्क्तिसंचयम् । भद्रकोणो भवेद् भागो भागः शुण्डी तु विस्तरे ॥ ३ ॥ कर्णात्परमसूत्रं प्रासादश्च कलांशकैः 1 शुकनासो मण्डपश्च पूर्वमानविकल्पितौ ॥ ४ ॥ कर्णे प्रतिरथे चैव शाला द्वादश कल्पयेत् । सूर्याख्या सा समाख्याता सिद्ध किन्नरसेविता ॥ ५ ॥ इति सूर्याख्या ॥ प्रदद्याद्ग्रशालाश्च सर्वालङ्कारसंयुता । चन्द्रमण्डला तन्नाम सर्वविघ्न विनाशिनी ॥ ६ ॥ इति चन्द्रमण्डला ॥ परित्यज्याग्रशालाश्च भद्रे दद्याद् याम्योत्तरे । चन्द्रभासा तदा नाम वन्दिता त्रिदशैरपि ॥ ७ ॥ इति चन्द्रमाला | प्रदद्याद्ग्रशालाश्च सर्वलक्षणसंयुत । । मेघोदरी तस्या नाम कर्तव्या च दिवाकरे ॥ ८ ॥ इति मेघोदरी ॥ भद्रशाला भद्रगर्भे स्वायता सर्वकामदा | माहेन्द्री तु तस्या नाम सर्वकल्याणकारका ॥ ९ ॥ इति माहेन्द्री || याम्योत्तरे तथा भद्रे शालात्रिकं तु कारयेत् । विजयानन्दा नामाख्या त्रिदशैरपि दुर्लभा ॥ १० ॥ इति विजयानन्दा ॥ अपरे तु तथा नन्दा शालात्रिकं सुलक्षणम् । प्रतापतेजा तन्नाम कर्तव्या सर्वकामदा ॥ ११ ॥ इति प्रतापतेजा ||
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy