SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ १८० - अपराजितपृच्छा पूर्वयाम्योत्तरे शस्त हट्टमार्गादिचत्वरम् । ईशाने शिल्पिनः सर्वे रजकाछिपकाः परम् ॥४७॥ चर्मकाराश्च वरुटा आनये दिशमाश्रिताः। नैर्ऋत्ये शोण्डिका ज्ञेया वायव्ये तन्तुवायकाः ॥४८॥ पुरमध्ये च सर्वत्र प्राकारस्य तथोपरि । स्थापयेत्सूत्रयंत्रं च विविधं कर्मरोद्रकम् ॥ ४९ ॥ यन्त्राणि चित्ररूपाणि विश्वकर्मेरितानि च। तेषां नामानुक्रमं च कथये तव साम्प्रतम् ॥ ५० ॥ प्रथमं भैरवं यन्त्रं द्वितीयं चैव भास्करम् । गौरीयन्त्रंचतुर्थस्यात्तृतीयं महिषासुरम् ॥५१॥ वाराह पञ्चमं चैव महायन्त्रं च पष्ठकम् । अचिन्त्यमुद्गराघातं ज्वालावलि शराकुलम् ॥ ५२ ॥ अक्षयं च दृढं युक्त्या नैकढिल्लिकसंकुलं । पभिर्यन्त्रैः समायुक्तं प्राकारं भीमरूपकम् ॥ ५३॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशनोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां महाराजाधिराजपुरनिवेशाधिकारो नाम द्वासप्ततितमं सूत्रम् ।।
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy