SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ महाराजाधिराजपुर निवेशो नाम द्वासप्ततितमं सूत्रम् पुर सीमान्तप्राकारे प्रतोलीहमार्गयोः । जलाश्रयं जगत्यन्ते घटिमालासमुद्भवम् ॥ ३१ ॥ वस्तुयुतश्च तदग्रे विक्रयादिकम् । यतच्चागम्यते लोकैर्वर्तते जनसंकुलम् ॥ ३२ ॥ स्वर्णकारं सुगन्धं च गन्धिकं च तृतीयकम् | दन्तकर्म धान्यगृहमेतत्कुर्यान्तु पूर्वतः ॥ ३३ ॥ ताम्बूलफलसंकीर्ण पुष्पमालादिसंकुलम् । राजद्वारातश्चैव यतः स्याश्च जनाकुलम् ॥ ३४॥ मंजिष्ठरङ्गशोभाढ्यं नारिकलसमाकुलम् | त्रिगणोपस्कराद्यं च राजद्वारोत्तरे शुभाः ॥ ३५ ॥ आयसोपस्करं सर्वे शस्त्रादि विविधं तथा । व्यजनच्छत्रमायूरं शाश्वतं दक्षिणे शुभम् ॥ ३६ ॥ ईशाने व वस्त्रयं पट्टिनेत्रपट्टाद्यकम् । स्वल्पवस्त्राद्याग्नेय्यां च वस्त्रबन्धस्तदग्रतः ॥ ३७ ॥ रक्तकाद्युत्तरे शस्तं कृष्णरङ्गादि दक्षिणे । पूर्वतः श्वेतवस्त्राद्यं राजवेश्माग्रकल्पितम् ॥ ३८ ॥ अष्टादशानां धान्यानां सर्वदिक्षु च विक्रयः । ताम्बूलानां च पूगानां विक्रयो देवताग्रतः ॥ ३९ ॥ (तां) दलाक्षं ? चित्रलेखाद्या गृहेषु पुरवासिनाम् । छिपिका रजकास्त्रैणाः स्वदेवादिपुरे स्थिताः ॥ ४० ॥ ब्राह्मणाः पूर्ववास्तव्याः क्षत्रियाश्चैव दक्षिणे । प्रशस्ताश्चोत्तरे शुद्रा वैश्या मध्ये च संकुलाः ॥ ४१ ॥ पुरे पुरे च विप्राश्च क्षत्रिया वैश्यशूद्रकाः । तद् बाह्यतस्तथा चान्यास्तथा स्थपतिसंकुलाः ॥ ४२ ॥ विप्रक्षत्रियवैश्यानां प्राकारा वै निवासिनाम् । वणिक् कर्मकराणां च मध्यानां च सुखावहाः ॥ ४३ ॥ विदिक्षु दिक्षु वै कार्या नगरस्वस्तये यथा । अष्टद्विरद्वात्रिंशदधमा मध्यमोत्तमाः ॥ ४४ ॥ चतुर्वणश्च प्रकृतीरेकैकेषु पुरेषु च । सर्वत्र वासयेच्चैव नागरांश्च सुखावहान् ॥ ४५ ॥ पूर्वे ब्राह्मण लोकाश्च क्षत्रियाचैव दक्षिणे । निवश्याश्चोत्तरे शूद्राः पश्चिमे तु जलाश्रयाः ॥ ४६ ॥ १७९
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy