SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ (५०) सूत्रधारलक्षणात्मकं पञ्चांशं सूत्रम् ॥ विश्वकर्मोवाच शणु वत्स यथान्यायं सूत्रधारस्य लक्षणम् । शास्त्रशः कुशलो दक्षो वास्तुविद्याविबोधकः ॥१॥ सूत्रधारो महाप्राज्ञः षट्कर्मसु निरन्तरम् । यो नित्यं त्यमरतत्वं सामुष्टोऽपि तद्यालयम् ? ॥२॥ माधुर्यवांस्तथालापे वास्तुविद्यादिकौशलः । शानचक्षुः सुहृदयः प्रारम्भादिरुजापहः ॥३॥ हस्तलाघवसम्पन्नो घाट्यचित्रादिकौशलः । चक्षुः प्रत्यक्षकञ्चैव ह्यदृष्टं ज्योतिषो यथा ॥ ४॥ ग्रन्थार्थगुणसम्युको वास्तुमर्मादिबोधकः।। आत्ममत्युद्भवं रूपं ससूत्रं स च कर्मणा ॥५॥ सूत्रधारोपचारोर्थ ? वास्तुशास्त्रादिवोधनम् । भुवनकोशविज्ञानं प्रमाणं सूत्रकर्मणि ॥ ६॥? समुद्रोपकण्ठदेशमहाशैलाश्रमादिकम् । भूमिभागैरनेकैश्च परीक्षा सूत्रकर्मणाम् ॥ ७ ॥ मोपमर्मवेधाश्च वंशोपवंशकानि च । सन्धिरेखाषट्कशलं लागलं. पञ्चकादिकम् ॥ ८॥ षण्मर्मवेधा विशेया वास्तुदेहसमुद्भवाः । निघण्टुं देवतानां च जानीयात् सूत्रकर्मणि ॥९॥ नगरग्रामखेटाद्यं वास्तुवेदसमुद्भवम् । कुटकर्वटकूप्यादि ज्ञायते सूत्रकर्मणा ॥१०॥ पुरप्राकारपरिखापतोलीमार्गगोपुरम् । गृहं च राजवेश्माद्यं ज्ञायते सूत्रकर्मणा ॥ ११ ॥ प्रासादप्रतिमालिङ्गजगतीपीठमण्डपम् । वेदीकुण्डं सुचा चैव ज्ञायते सूत्रकर्मणा ॥ १२॥ प्रासादा विविधाकारा वैराज्यकुलसम्भवाः। विभक्त्यूवतलच्छंद शायते सूत्रकर्मणा ॥ १३ ॥ रेखानां विविधाकारा प्रासादशिखरोत्तमाः। घण्टाकलशध्वजायं ज्ञायते सूत्रकर्मणा ॥ १४॥ द्वारशाखाविधि ज्ञात्वा मूलप्रासादच्छन्दजम् । द्वारपालविधिश्चैव ज्ञायते सूत्रकर्मणा ॥ १५॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy