________________
शिल्परले
[उपरभागः अथ बिम्बं तु त्रिविधं निष्कलं सकलं तथा । मिश्रं चेति च तद् बिम्बमचलं च चलं तथा ॥६॥ चलाचलमिति त्रेधा तत्प्रपञ्चः प्रदर्श्यते । निष्कलं केवलं लिङ्गमन्यत्त्ववयवान्वितम् ॥७॥ तदेव चित्रमर्धाङ्गदर्शनं त्वर्धचित्रकम् । चित्राभासं तथा लेख्यमुत्तमादिक्रमेण तु ॥ ८॥ सकलं त्रिविधं ज्ञेयं मिश्रलक्षणलक्षितम् । मिश्राख्यं मुखलिङ्गं स्यादचलादिकमुच्यते ॥ ९ ॥ निधिकुम्भप्रतिष्ठादि सर्वमुक्तानुसारतः। कृत्वा प्रतिष्ठितं बिम्बमचलं परिकीर्तितम् ॥१०॥ पीठिकोपरि संस्थाप्य पूजितं चलमेव हि । सौधं च पार्थिवं शैलं सङ्करं त्वचलं शुभम् ॥ ११ ॥ रत्नजं दारुजं लौहं त्रयं चैतच्चलं शुभम् । धातुवर्णादिभिलेख्यं पटादौ तच्चलाचलम् ॥१२॥ लिङ्गं गर्भगृहद्वारस्तम्भाधिष्ठानकिष्कुभिः । तालमानाङ्गुलैश्चापि तथा मात्राङ्गुलैरपि ॥ १३ ॥
यजमानोच्चमानेन चैवं नवविधं स्मृतम्। गर्भब्यासे विभक्ते स्मरशरनवनेत्रस्त्रिपञ्चैकभागै
लिडानि त्रीणि तेषु त्रिषु गुणदलितेष्वेकभागैहि भागैः । हे द्वे तानि स्युरेवं नव चरणयुतं तत्समं पादहीनं द्वाराद् ध्येकांशकाभ्यामपि गुणदलिते तत्र पोतराणि
॥ १४ ॥