SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ लिङ्गालक्षIRAJ:: द्वितीयोऽध्यायः ।। निर्माय सबस्ताल्लिङ्गे शिवमावाह्य पूजयेत् । विसृज्य निरपेक्षं तल्लिङ्गमासु विनिक्षिपेत् ॥ ५६ ॥ अथ पीठम् । स्वयोनिः पीठिकैव स्याच्छैलादीनामदूषणा। .. अभावे त्वैष्टकी शैले रत्नजानां हिरण्मयी॥ ५७॥. राजती ताम्रजा वा स्याच्छेष्ठमध्याधमक्रमात् । न्यूनैर्वा परलोहानामिष्टकाभिश्च दारवे ॥ ५८ ॥ इति शिल्परत्नेऽन्त्यभागे बिम्बादिसाधनविधिर्नाम प्रथमोऽध्यायः ॥ अथ द्वितीयोऽध्यायः। अथ लिङ्गलक्षणम् । सुखासनं तु प्रथमं स्कन्दोमासहितं ततः। तृतीयं चन्द्रमूर्धानं चतुर्थ वृषवाहनम् ॥ १॥ पञ्चमं नृत्तमूर्तिस्तु गङ्गाधरमतः परम् । . सप्तमं त्रिपुरारिः स्यात् ततः कल्याणसुन्दरम्॥२॥ अर्धनारीश्वरं पश्चाद् दशमं गजहा तथा । एकादशं पाशुपतं कङ्कालं द्वादशं स्मृतम् ॥ ३॥ अर्धनारायणं पश्चाद् भिक्षाटनमतः परम् । चण्डेश्वरप्रसादं तु दक्षिणामूर्तिरेव च ॥ ४ ॥ ततः कालारिमूर्तिश्च लिङ्गमष्टादशं स्मृतम् । . . एवं लिङ्गोद्भवं पूर्वैः प्रोक्तं शैवपरायणैः ॥ ५ ॥ १. 'दि' ग. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy