SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ... शिल्परत्ने त्तरभागः शुक्लां रक्तां तथा पीतां कृष्णामादाय चूर्णयेत् । यवगोधूममाषाणां चूर्णानां गुग्गुलोरपि ॥ ४५ ॥ लाक्षाश्रीवेष्टकश्यामासर्जानां च समांशकैः । कुन्दुरिक्षस्य चांशेन मृच्चूर्णं सर्वसम्मतम् ॥ ४६॥ कपिलापञ्चगव्येन सतैलेन तु मर्दयेत् । तां मृदं मर्दितां पक्षं मासमात्रोषितां पुनः॥ ४७ ॥ गृहीला कारयेल्लिङ्गं सपीठं लक्षणान्वितम् । मासं तु शोषयेद् धर्मे बिम्बमामं तु मार्तिकम् ॥ ४८ ॥ अथवा केवलां मत्स्ना कर्मयोग्यां विचूर्णिताम् । मर्दितां पञ्चगव्याद्भिर्मासमात्रं तथोषिताम् ॥१९॥ गृहीत्वा कारयेल्लिङ्गं सपीठं त्विष्टमानतः ।। विपचेत् कुशलैरग्नौ पक्कलिङ्गं तु तद् भवेत् ।। ५.॥ कृत्वा दारुमयं शूलं लोहपट्टविभूषितम् । मृदा विधिवदालिप्य शोषयेन्मिश्रलिङ्गकम् ॥५१॥ भित्त्यादावालिखेद् वर्णैर्लेख्यबिम्बं यथोदितम् । मृम्मयं वाक्षिकं बिम्बं सर्वसिद्धिप्रदं सदा ॥५२ ॥ मन्मये हेमरत्नानि मध्ये संस्थाप्य कारयेत् । सैकतं गौमयं पैष्टमान्नं गौलं फलात्मकम् ॥ ५३॥ नावनीतं च लिङ्गानि त्यज्यतां प्रतिवासरम् । नैतेषां पीठिका कार्या कुर्याल्लिङ्गं तदासने ॥५४॥ नैषां त्रिखण्डमानं वा न शिरोवर्तनादिकम् । नैषां कालं मुहूर्ताचं नाधिवासादिकाः क्रियाः ॥ ५५ ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy