SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३० शिल्परत्ने उत्तरभागः अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्त भरतादिभिः परिवृतं रामं भजे श्यामलम् [॥३०॥ अथवा - रामं रत्नकिरीटकुण्डलधरं केयूरहारान्वितं सीतालकृतवामभागममलं सिंहासनस्थं प्रभुम् । सुग्रीवादिसमस्तवानरगणैः संसेव्यमानं सदा __विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं भजे ॥ ३१ ॥ वामे भूमिसुता पुरस्तु हनुमान् पश्चात् सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोरग्न्यादिकोणेष्वथ। सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ ३२ ॥ वैदेहीमधिरुह्य जातपुलका बामाङ्कमासेविनी __ वामेन स्तनचूचुकं पुलकिना वामं करेणामृशन् । तत्त्वं दक्षिणपाणिना कलितया चिन्मुद्रया शोभयन् रामो मारुतिसेवितो लसतु मे साम्राज्यसिंहासने ॥३३॥ गोपालकभेदः - उदयगिरितटान्ते रुक्मिणीसत्यभामा सहितमखिलगोपीवल्लभं देवदेवम् । अभयवरदहरतं पायसादं प्रसन्नं विबुधगणनिषेव्यं नन्दसूनुं नमामि ॥ ३४ ॥ श्रीकराष्टाक्षरभेदः-- श्रीवत्सामुदारहारकिरणज्योत्स्नावितानोज्ज्वलं पीतं शखगदाजचविलसद्वाहुं पिशङ्गांशुकम् ।
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy