SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे राशिः, निगोदराशेः सकाशात् वनस्पतिराशिः प्रत्येकेन साधिकः १३ = | ततो जीवराशेरनंतगुणः पुद्गलराशि: १६ ख ततोनंतगुणः कालराशिः १६ ख ख, ततोप्यनंतगुणः अलोकाकाशराशिः १६ ख ख ख । षडेते अनंतरूपप्रक्षेपाः ॥ ४९ ॥ २२ तं तिण्णिवारवग्गिद संवग्गं करिय तत्थ दायव्वा । धम्माधम्मागुरुलघुगुणाविभागप्पडिच्छेदा ॥ ५० ॥ तं त्रिवार वर्गित संवर्ग कृत्वा तंत्र दातव्याः । धर्माधर्मागुरुलघुगुणाविभागप्रतिच्छेदाः ॥ ५० ॥ तं तिणि । तं राशिं त्रिवारवर्गित संवर्ग कृत्वा त्रिःप्रति विरलनादिकं त्रिशलाकां च समाप्येत्यर्थः । तत्र राशौ दातव्याः धर्माधर्मद्रव्यागुरुलघुगुणाविभागप्रतिच्छेदाः । ख ख ॥ ५० ॥ लद्धं तिवार वर्गिद संवग्गं करिय केवले णाणे । अवणिय तं पुण खित्ते तमणंताणंतमुकस्सं ॥ ५१ ॥ लब्धं त्रिवारं वर्गितसंवर्ग कृत्वा केवलज्ञाने । अपनी तं पुनः क्षिप्ते तमनंतानंतमुत्कृष्टम् ॥ ५१ ॥ 1 लद्धं तिवार । लब्धं त्रिवारवतिसंवर्ग कृत्वा पूर्वमिव त्रिः प्रति विरलादिं त्रिशलाकां च समाप्येत्यर्थः । एतदेव केवलज्ञाने अपनीय तदेव तस्मिन् पुनर्निक्षिप्ते यो राशिरुत्पयते तं अनंतानंतस्योत्कृष्टं जानीहि ॥ ५१ ॥ अथ श्रुतज्ञानादीनां विषयंस्थानं निरुपयति ; जावदियं पञ्चक्खं जुगवं सुदओहिकेवलाण हवे । तावदियं संखेज्जमसंखमणतं कमा जाणे ॥ ५२ ॥ यावत्कं प्रत्यक्षं युगपत् श्रुतावधिकेवलानां भवेत् । तावत्कं संख्येयमसंख्यमनंतं क्रमात् जानीहि ॥ ५२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy