SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे शेषं चार्धीकृत्य र‍ अस्मिन्नपनीतार्थं ३ समच्छेदीकृत्य गरेर अन्योन्यं संयोज्य तदप्यपवर्त्य १ इदं किंचिन्न्यूनं अगणयित्वा एकयोजनं कृत्वा हरिगिरिधनुश्शेषार्धे २०१९५ संयोजिते २०१९६ सति निषधस्य पार्श्वभुजो भवति । इदानीं हरिगिरिधनुषोः सिद्धांकमुच्चारयति - सप्तसप्तत्रित्र्यशीतिर्योजनानि ८३३७७ हरिवर्षक्षेत्रधनुः निषधपर्वते धनुः अष्टषट्सप्तत्रिंशद्वादश च योजनानि १२३७६८ ॥ ३९३॥ १६४ अथोक्तयोर्धनुषोः शेषांकं पार्श्वभुजांकं चोच्चारयति; — माहवचंदुरिया णवयकला णयपप्पमाणगुणा । पासभुजो चोदसकदि वीससहस्सं च देसूणा ॥ ३९४ ॥ माधव चंद्रोद्धृता नवककला नयपदप्रमाणगुणाः । पार्श्वभुजः चतुर्दशकृतिः विंशसहस्रं च देशोनानि ॥ ३९४ ॥ माहव । माधव चंद्रेणो १९ द्धृता नवकला करे एता: हरिक्षेत्रस्य चापशेषाः एता एव परे नयस्थानप्रमाण २ गुणिताः । निषधचापस्यांशाः । निषेधस्य पार्श्वभुजः पुनः चतुर्दशक्कृतिर्विंशतिसहस्रयोजनानि २०१९६ देशोनानि ॥ ३९४ ॥ अथायनविभागमकृत्वा सामान्येन चारक्षेत्रे उदयप्रमाणप्रतिपादनार्थमिदमाह; - दिगदिमाणं उदयो ते णिसहे णीलगे य तेसट्ठी । हरिरम्मगेसु दो दो सूरे णवदससयं लवणे ॥ ३९५ ॥ दिनगतिमानं उदयः ते निषधे नीलके च त्रिषष्ठिः । हरिरम्यकयोः द्वौ द्वौ सूर्ये नवदशशतं लवणे ॥ ३९९ ॥ १७० दिणगदि । दिनगतिक्षेत्रमिदं एतावति क्षेत्रे ययकः सूर्यस्योदयो भवेत् । तदा एतावति ५१० क्षेत्रे कियन्त उदया इति संपात्य भक्ते
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy