SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [६०] गाथा ||..|| दीप अनुक्रम [६२] Jan Education दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [ ३ ] ........... मूलं [ ६०] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: गार्दैन्य भागलक्षणं एतेषां यो रागो-रक्तत्वं तथा (बंधुजीवगत्ति) बन्धुजीवकं - पुष्पविशेषः 'वपोहरीआ फुल इति लोकप्रसिद्धं (पारावयचलणनयणत्ति) पारापतस्य चरणनयनं (परहु असुरत्तलो अणत्ति) परभृतस्य को किलस्य सुरक्तें - कोपादिना रक्तीकृते ये लोचने (जामुअणकुसुमरासित्ति) जपापुष्पस्य 'जासूद' इति लोकप्रसिद्वस्य यो राशि:- समूहस्तथा ( हिंगुलनिअराइरेगरेहंतसरिसे) हिंगुलनिकरश्च प्रसिद्धः, एतेभ्यः सर्ववस्तुभ्यः अतिरेकेण राजमानः सन् सदृशः, अत्र यः अतिरेकेण राजमानः स सदृशः कथं भवतीत्याशङ्कायां रक्तत्वमात्रेण सदृशः कान्त्या तु अतिरेकेण राजमान इति वृद्धाः, अथवा रक्ताशोकप्रकाशादीनां हिङ्गुलनिकरान्तानां यो राजमानोऽतिरेकः- प्रकर्षस्तत्सदृश इति, पुनः किंविशिष्टे सूर्ये १ ( कमलायरसंडविबोहए ) कमलानां आकरा - उत्पत्तिस्थानानि ये पद्महदादयस्तेषु यानि खण्डानि कमलवनानि तेषां विकाशके (उट्ठियंमि सूरे) एवंविधे अभ्युदिते सूर्ये सति, पुनः किंवि० १ ( सहस्सरस्सिमि) सहस्ररइमौ पुनः किंवि० १ ( दिणयरे) दिनकरे - दिनकरणशीले, पुनः किंवि० १ ( तेअसा जलते ) तेजसा देदीप्यमाने ( तस्स य करपहरापरर्द्धमि अंधयारे ) तस्य च श्रीसूर्यस्य करमहारै: - किरणाभिघातैः अन्धकारे अपराद्धे विनाशिते सति, अथ च ( बालायवकुंकुमेणं खचियत्व जीवलोए ) बालातपः प्रसिद्धः स कुङ्कुममिव तेन जीवलोके मनुष्यलोके खचिते - व्याप्ते सति, कोऽर्थः ? - यथा कुङ्कुमेन किञ्चिद्वस्तु पिञ्जरीक्रियते तथा बालातपेन जीवलोके पिञ्जरीकृते सति (सयणिजाओ अब्भुट्ठेइ ) शयनीयात् अभ्युत्तिष्ठति ॥ (६०) ॥ For Pride & Personal Use Only ~ 131~ नृपस्योत्था नं सू. ६० ५ १० १४
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy