________________
प्रवरमअरी.
दितो ये भृगवस्तान्वक्ष्यामः, न द्वचामुष्यायणत्वेन पश्चात् भृगुत्वमापन्नानिति दर्शयितुं वा; द्वयामुष्यायणानामुत्तरत्र वक्ष्यमाणत्वात् । इह गणाः प्रवराश्च निगदव्याख्याता इति न व्याख्येयाः । जामदग्नयवत्सा इत्यत्र वत्सानां जमदग्निविशेषणं पञ्चावत्तप्रापणार्थ, 'जमदग्नीनां पञ्चावत्तम्' इत्यापस्तम्बवचनात् । 'वत्सा विदा आष्टिषेणा इत्येतेषामविवाहः । एते पञ्चावत्तिनः' इत्यत्र पञ्चावत्तविधिपरे सूत्रे पूर्वोक्तोऽविवाहश्चोन्नेय इति दर्शयति । इह वत्सादीनां त्रयाणां गणानां परस्परमविश्वाहः, पञ्चायत्वात्व्यायसन्निपाताच्च । ये च तत्र वैकल्पिकाः वत्साष्टिषेणाः व्यायप्रवरास्तेषां परस्परमविवाहः, व्यार्षयत्वाद्यायसन्निपाताच्च । तदुक्तमयस्तात् 'न्यायसन्निपाते अविवाहः पञ्चायाणां द्वयोर्षयसन्निपाते अविवाहस्त्यापैयाणाम्' इति । अत्र श्लोकः--
वत्साटिषेणविदगोत्रभाजां पञ्चायप्रवरत्रये स्वे । भृग्वप्नवानच्यवनास्समाना यतस्ततो नास्ति मिथो विवाहः ॥
परेषां यस्कादीनां गणानां स्वस्वं गणं समानप्रवरत्वाद्विहाय परस्परं पूर्वोक्तैर्वक्ष्यमाणैश्च सह विवाहोस्ति, सगोत्रत्वसमानप्रवरत्वयोरभावात् । इति भृगूणां विवाहाविवाही व्याख्यातौ ।। __ अत्र सूत्रकारैश्चत्वारः प्रवराश्शुनकानामुक्ताः । एकस्तावच्छुनकेत्येकार्षेयः । गार्ल्समदेत्येकार्षेयोपरः । भार्गवगार्ल्समदेति व्यारेयोन्यः । भार्गवशौनकहोत्रगार्समदेति व्यायश्चतुर्थः । कथमेते प्रवरविकल्पा इति विचारयन्ति बहुविदः । तत्र व्रीहियवयोरिव विकल्पमेके मन्यन्ते । वंशव्यवस्थया व्यवस्थितविक-, ल्पमपरे । कथं पुनरत्र वंशव्यवस्था ? । अत्राहु:-चतुर्विधाः
*पूर्वोक्तानामवि.