________________
४७
भृगुकाण्डम्. शुनकाः परस्परं भिन्नास्सन्ति । शुनकादेव जाताः केचित् । गृत्समदादेव जाताः केचित् । केचिद्भूगोरपत्यं शुनकहोत्रः तदपत्यं गृत्समदः तस्मादेव जाता इति । तत्र शुनकनामधेयमात्र. मेकं, वंशास्तु भिन्नाः । तेषां चतुर्विधानां शुनकानामिमे प्रवरा इति ॥ ___ नन्वेवं कस्मान्न कल्प्यते-भृगोरपत्यं शुनकः, तदपत्यं शुनकहोत्रः, तदपत्यं गृत्समदः, तदपत्यं शुनक इत्येक एव वंश इति । नैवं युक्तम् । कुतः? सत्याषाढचवनविरोधात् । तथाहि सत्याषाढो वदति-'त्रीननन्तरानितउर्ध्वान्मन्त्रकृतोध्वर्युतणीते अमुतोचिो होता' इति । अत्रानन्तरानित्यस्यायमों व्याख्यातो भाष्यकारण मातृदत्तन-'मन्त्रदृम्भिरन्यैरव्यवहितान्' इति । तत्रैकवंशत्वे सति मन्त्रहभिरेव व्यवधानं कल्पितं स्यात् । तस्मादुक्तो व्यवस्थितविकल्पः । एवं वक्ष्यमाणानामपि गर्गहरितकण्वरथीतरशण्डिलादीनां वंशभेदकल्पनया प्रवरविकल्पा व्याख्येयाः ॥ व्याख्याता भृगव इत्युक्तानुभाषणस्य च प्रयोजनं अविद्यमानभृगुशब्दानामपि शुनकमित्रयुवां भृगुत्वं यथा स्यादिति । तेन च प्रयोजनं 'भृगूणां त्वेति यथाधानं' 'भार्गवो होता भवति' इत्यादावुपप्रवेशसिद्धिरिति ॥
नन्विह किमर्थं कात्यायनलोगाक्षी तत्रतत्र प्रतिगणं इत्येतेषामविवाह इति न पुनरेकत्रैवाहतुः । असमानप्रवरैर्विवाह इति गौतमवदेकत्रैव युक्तं वक्तुम्, ग्रन्थलाघवात् । अत्र प्रवराध्यायसम्प्रदायविदः परिहारमाहुः-~मत्स्यपुराणे मत्स्यरूपं भगवन्तं विष्णुं तत्रतत्र गणानुक्त्वा प्रतिगणमेतेषामविवाह इति वदन्तं श्रुत्वा तत्सम्प्रदायात्कात्यायनलोगाक्षी तथैवाहतुरिति । अन्ये वदन्तिबोधायनादिभिरन्यैः सूत्रकारैस्समानगोत्राणामविवाह उक्तो