________________
भृगुकाण्डम्
अथेदानीमेतानि काण्डानि व्याख्यास्यामः ॥ इहोदाहृतेषु गोत्रगणेष्वप्येकेन सूत्रकारेणान्यैरनुक्तमधिकं यत्किञ्चित् गोत्रं वा गोत्रगणो वा गणान्तर्भूतानि वा गोत्रान्तराणि गोत्रसङ्ख्या वा प्रवरः ऋषिक्रमविशेषो वा* प्रवरविकल्पो वा तत्कृतौ विवाहाविवाही विशेषान्तरं वा तत्सर्वं सर्वैस्सूत्रकारैरुक्तमेवेति मन्तव्यं, प्रामाण्याविशेषादेकत्रोक्त्यैवार्थसिद्धेरविरोधाच्च ; स्मृतिशास्त्रेषु प्रायश्चित्ताशौचदायविभागव्यवहारकाण्डेषु यद्वत् । तथा—गोत्रगणेषु परिगणितानां ऋषीणां नामधेयानि मात्रासङ्ख्याक्रमेयत्तासन्देहात्सन्दिह्यमानरूपाणि निगमनिरुक्तव्याकरणमन्त्रार्थवादेतिहासपुराणलोकतर्केभ्यः सम्यगवधार्य तत्वतो यथाप्रज्ञं विभजनीयानि । तथायत्रयत्रैव नामधेयमेकस्मिन्नेव गणे गणान्तरे वा द्विरुत्वस्त्रिकत्वो वा पठितम्, तत्रतत्र नाभधेयैकत्वेपि तहाच्यस्य ऋषिभेदोध्यवसातव्यः, अभेदे सत्यभ्यासानर्थक्यात् एकस्मिन्नेव गणे गणान्तरे च प्रवरभेदात् । न येकस्यैव प्रवरभेदो युक्तो विना वचनेन । ढश्यते च लोके बहूनां पुरुषाणां एकमेव नामधेयं देवदत्तादिवत् । तथा यत्रयत्रैकर्षिनामधेयमेकस्मिन्नेव गणे अक्षरसङ्ख्यामात्राक्रमाणामेकतमेनैकेन द्वाभ्यां वा विकृतं तेन सूत्रकारेण पठ्यते तत्रतत्र नामैकदेशविकारेऽपि नामैकत्वान्नामवाच्यस्य चैकत्वं द्रष्टव्यं, 'एकदेशविकृतमनन्यवद्भवति' इति न्यायात् । एकत्र एकप्रवरसत्वादन्यत्र तस्याध्याहारविपरिणामव्यत्यासव्यवहितकल्पनाभिः करणैस्सिर्वाणि गोत्रकाण्डानि उक्तानि वक्ष्यमाणानि च समान्ये वेति कृत्वा व्याख्यास्यामः-भृगूणामादितो व्याख्यास्याम इति ॥ भृगोः प्राधान्यात् । प्राधान्यं च 'महर्षीणां भृगुरहम् । इति स्मृतेः, मोक्षधर्मेषु च भृगोर्वासुदेवांशतास्मरणात् । आ
*प्रवर ऋषिविशेषो वा. कल्पनाभिन्नैः, भगवद्ग, १०-२५,