________________
प्रवरमञ्जरी. भृगुश्च वीतहव्यश्च तथा रैवसवैवसौ। परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ शालायनिश्शाकटाक्षो मैत्रेयः खाण्डवस्तथा । द्रौणायनो रौक्मायनः पिशली चापि कायनिः॥ हंसजिह्वस्तथैतेषामार्षेयाः प्रवरा मताः। भृगुश्चैवाथ वध्रयश्वो दिवोदासस्तथैव च ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः । एकायनो यज्ञपतिर्मत्स्यगन्धिस्तथैव च ॥ प्रत्यूहश्च तथा श्रोण्यश्चक्षुर्वा कार्द'मायनिः। तथा गृत्समदो राजन् सनयश्च महर्षिकः ॥ प्रवरास्तु तथोक्तानामार्षेयाः परिकीर्तिताः । भृगुर्गृत्समदश्चैव आर्षावेतौ प्रकीर्तितौ ॥ परस्परमवैवाद्या इत्येते परिकीर्तिताः । एते तवोक्ता भृगुवंशजाता __ महानुभावा नृप गोत्रकाराः। येषां तु नाम्नां परिकीर्तनेन
पापं समग्रं पुरुषो जहाति ॥ इति श्रीमत्स्यपुराणे भृगुगोत्रप्रवराध्यायस्समाप्तः. प्रभूतश्च तथा श्रोणाश्चक्षिर्दाकर्णि.
शुनकश्च महर्षयः,