________________
प्रवरमञ्जरी.
इह कात्यायनपाठानुसारेणाध्वर्युप्रवरक्रम उदाहृतः । लौगाक्षिपाठे तु बोधायनाद्युक्ताध्वर्युप्रवरक्रमा अविशिष्ठा द्रष्टव्याः ।
इति कात्यायनलौगाक्षिप्रणीतं भृगूणां गोत्रकाण्डमुदाहृतम् ॥
अथाश्वलायनोक्तं भृगूणां गोत्रकाण्डमुदाहरिष्यामः -
जामदग्न्या वत्सास्तेषां पञ्चार्षेयो भार्गवच्यावनाप्तवानौर्वजामदग्न्येति । अथ हाजामदग्न्यानां भार्गवच्यावनाप्तवानेति । आष्टिषेणानां भार्गवच्याव
I
नाप्तवानाष्टिषेणानूपेति । विदानां भार्गवच्यावनाप्नवानौर्ववैदति । यास्कवाधूलमौन मौकशार्कराक्षिसा - ष्टिसावर्णिशालङ्कायनजैमिनि जीवन्त्यायनानां भार्गववैतहव्यसावेदसेति । श्यैतानां भार्गववैन्यपार्थेति । मित्रयुवां वात्र्यश्वेति । त्रिप्रवरं वा भार्गवदैवोदासवाप्रयश्वेति । शुनकानां गृत्समदेति । त्रिप्रवरं वा भार्गवश्चौनहोत्रगर्त्समदेति ॥
इत्याश्वलायनोक्तं भृगूणां गोत्रकाण्डमुदाहृतम् ॥
अथ मत्स्यपुराणोक्तं गोत्रप्रवराध्यायमुदाहरिष्यामःपोलोम्यजनयद्विप्रं देवानां तु कनियसम् । च्यवनं च महाभाग मनवानं तथाप्यसौ ॥
-