________________
भृगुकाण्डम सर्वस्थिरचरव्यक्तिसृष्टिस्थित्यन्तकर्मणे । हृद्यन्तश्शुद्धविज्ञानज्योतिषे ब्रह्मणे नमः ॥ प्रोक्तैषा कल्पसूत्रोक्तगोत्रप्रवरमञ्जरी । वक्ष्ये मत्स्यपुराणोक्तां गोत्रप्रवरमञ्जरीम् ॥ मनसा वचसा शिरसा सहसा स्थिरकंप्रगुरुं प्रणिपत्य हरिं ॥ गुरुणा हरिणा मनवे मुनये गदितान्प्रवरान्प्रवदाम्यधुना ॥ सूत उवाचइत्याकर्ण्य स राजेन्द्र ओङ्कारस्याभिवर्णनम् । ततः पप्रच्छ देवेशं मत्स्यरूपं जलार्णवे ॥ मनुरुवाचऋषीणां नामगोत्राणि वंशावतरणं तथा । प्रवराणां तथा साम्यमसाम्यं विस्तराद्वद ॥ महादेवेन ऋषयश्शप्तास्स्वायम्भुवेऽन्तरे । तेषां वैवस्वते प्राप्ते सम्भवं मम कीर्तय ॥ दाक्षायणीनां च तथा प्रजाः कीर्तय मे प्रभो। ऋषीणां च तथा वंशं भृगुवंशविवर्धनम् ॥ मत्स्य उवाचमन्वन्तरेऽस्मिन्संप्राप्ते पूर्व वैवस्वते तथा ।
*-वंशानुचरितं.