________________
परिभाषाकाण्डम्. प्रवरविधिपरं वाजिनां 'परस्तादर्वाक् प्रवृणीते' इति । स्वयमप्याहयजमानार्षेयाण्याह परस्तादर्वाञ्चि त्रीणीति । लौगाक्षिपाठ इति व्याख्या । 'इत एवोर्ध्व होता' इति कात्यायनादिभिस्समानम् । 'अमुतोर्वाचो होता' इत्यत्र विशेषः । भार्गवच्यावनाप्नवानौर्वनामदग्न्येतिहोतुः प्रवरादमुतोर्वाचोध्वर्युः प्रवृणीते अन्त्यमारभ्य मूलभूतादृषेः यथा जमदग्निवदूर्ववदनवानवच्च्यवनवद्गुवदिति । अत्र सर्वेषामाचार्याणां होतुः प्रवरक्रमस्समानः । अध्वर्युप्रवरक्रमस्तु कात्यायनादन्येषामाचार्याणां समानः । कात्यायनस्य तु होतृप्रवरक्रम एवाध्वर्युप्रवरक्रम इति विशेषः ॥ ८-९॥
इति श्रीपुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमञ्जाँ कात्यायनलौगाक्षिप्रणीतप्रवराध्यायगोत्रसूत्रका
ण्डानामाद्यं परिभाषासूत्रकाण्डं समाप्तम्.
अथेदानीमाश्वलायनप्रणीतगोत्रकाण्डानामाद्यं परिभाषासूत्रकाण्डमुदाहरिष्यामःसर्वे समानगोत्रास्स्युरिति गाणगारिः कथं ह्यापी
सूक्तानि भवेयुः कथं प्रयाजा इति ॥१॥ अपि नानागोत्रास्स्युरिति शौनकस्तन्त्राणां व्यापि
त्वात् ॥२॥ गृहपतिगोत्रान्वया विशेषास्तस्य रातिमनुराद्विस्त
र्वेषां प्रवरास्त्वावर्तेरनावापर्धामत्वादिति॥३ इत्थमाश्वलायनीयप्रवराध्यायसूत्राणां परिभाषासूत्रकाण्डं स
माप्तम् ॥