________________
. प्रवरमअरी. व्याख्यातं चेदं ब्राह्मणमापस्तम्बादिसूत्रभाष्ये । युक्त्या च ताण्डिदर्शनं दूषयन्ति बहुविदः । ताण्डिदर्शने हि सर्वेषां त्रैवर्णिकानां समानप्रवरत्वादविवाहः, विवाहे च वर्णसार्यप्रसङ्गः, गुरुतल्पदोषप्रसक्त्या चण्डालोत्पत्तिदोषप्रसक्त्या च ब्राह्मण्यनाशान्मूलोच्छेदः प्रसज्यते इति ॥ ५ ॥ __ यः परार्षेयं ...... वृणीते ॥६॥
यः परार्षेयस्सन् स्वस्मात्परस्यायेण प्रवृणीते तदीयं यज्ञफलं तमेव परं गच्छति स एव भुते इत्यर्थः । किञ्च-आवृश्च्यते आच्छिद्यते वा एषः देवर्षिपितृमनुष्यसाध्याद्यज्ञफलादिति ॥६॥ इदानी ताण्डिश्रुतेरप्रामाण्यं परिहर्तुं विषयान्तरमाह
तदेतत् ...... भवति ॥७॥ ब्राह्मणक्षत्रियाभ्यामन्यत्र वैश्यविषया ताण्डिश्रुतिरित्यदोषः । न हि तत्र 'समानप्रवरदोषोस्ति अवर्जनीयत्वादेकदेशक्षामवत् । वात्सप्रीतिहोता वत्सप्रिवदित्यध्वर्युरित्यत्रापि स्ववर्णप्रवरैस्तुल्यत्वासमानप्रवरदोषो ब्राह्मणविषय एव निश्चीयते । तस्माद्ब्राह्मणानामेकद्वित्रिपञ्चार्षयाणां होतुरध्वर्योश्च प्रवरा व्याख्येयाः ॥ ७ ॥ तत्र बहूनां वरणे क्रमविशेषमाह
इत एवोर्ध्व होता प्रवृणीतेऽन्वगित्यध्वर्युः ॥ ८॥ इति कात्यायनः । इतः प्रवरकर्तव्यताप्रतिपादनादूर्ध्व होता प्रणीते भृग्वादीन्मन्त्रदृशः यथा भार्गवच्यावनाप्नवानौर्वजामदन्येति । अन्वगित्यध्वर्युः । होतुः प्रवरक्रममनुसरन्नध्वर्युः प्रवृ. णीते । इति शब्देन तमेव प्रवरक्रमं दर्शयति—यथा भृगुवच्च्यवेनादमानवदूर्ववजमदनिवदिति । तथाहि-ब्राह्मणमध्वर्युः ।