________________
परिभाषाकाण्डम्.
२३
वा मन्त्ररुत इत्यस्य पक्षस्य मूलभूतां श्रुति शाखान्तरगतां स्वयमेवोदाहरति-एकं वृणीत इत्येवमाद्या । व्याख्याता चैषा श्रुतिरापस्तम्बसूत्रभाष्ये । अस्याः श्रुतेरयमभिप्रायः–यस्यैक एव मन्त्रहगस्ति स एकं तमेव वृणीते । यस्य द्वावेव स्तः स हावेव वृणीते । यस्य त्रयस्सन्ति स त्रीनेव वृणीते । यस्य चत्वारस्सन्ति स चतुरो विद्यमानानपि न वृणीते । यस्य पञ्च सन्ति स पञ्च वृणीते । यस्य षडाद्या बहवस्सन्ति स पञ्चातीत्य षडादीन्न वृणीते विद्यमानानपीति । तत्र च यस्य यावन्तस्सन्ति न न्यूनाधिका इत्यत्र कल्पसूत्रकारा एव शरणं प्रमाणान्तराभावाच्च । इमामेव श्रुतिमवलम्ब्य कल्पसूत्रकाराः प्रवृत्ता इत्युक्तमधस्तात् ॥ ३ ॥
अपि हैके ...... प्रजा इति ॥४॥
अपि हेति पक्षान्तरपरिग्रहे । एके शाखिनस्ताण्डिनः छन्दोगाः । मानवेत्येकापेयं प्रवरं होतारः प्रवृणते । एके मनुवदित्यध्वर्यवः प्रवृणत इति । सार्ववर्णिकं सर्ववर्णेषु भवं प्रवरं प्रवृणीते । अत्र अथवा एके शाखिनस्ताण्डिनश्छन्दोगा इत्थं प्रवृणत इत्यामनन्तीति वाक्यशेषोध्याहर्तव्यः । एकार्षेयमानवप्रवरणे हेतुं पृच्छति-कस्य हेतोरिति । कुतो हेतोरित्यर्थः । 'षष्ठी हेतुप्रयोगे' इति पञ्चम्यर्थे षष्ठीस्मरणात् । तत्र हेतुः-मानव्यो हि प्रजा इति । अयमर्थः—यतस्सर्वासां प्रजानामाद्यो मूलभूतो मनुः “एकं वृणीते" इति ब्राह्मणान्तरं अतस्तमेव वृणते प्रजा इति । जातिः सामर्थ्यमर्थित्वं शास्त्रापर्युदासश्च येषां त्रैवर्णिकानां प्रवराधिकाराणां ते प्रनाशब्दवाच्या द्रष्टव्याः ॥ ४ ॥ अस्य ताण्डिनां पक्षस्य दूपणाय ब्राह्मणान्तरमाह-- तदेतत् ...... वृणीते ॥५॥