________________
परिभाषाकाण्डम्. त्यादिभिरार्षेयं वृणीते । न च मनुष्यैर्विद्वद्भिर्देवदत्तादिभिरायं वृणीते । ऋषिभिरेव वसिष्ठादिमन्त्रदृग्भिरार्षेयं वृणीत इति ॥३॥
आर्षेयं ...... विज्ञायते ॥४॥ अथापरं विज्ञायते श्रूयते शाखान्तरे । आर्षेयमन्वाचष्टे । कस्मात् ? ऋषिणा पूर्वजनकीर्तितेन देवप्रसिद्धेन तदपत्यं पुरुषमनुबुध्यन्ते भोज्यान्नोयं तदपत्यत्वात् इति जानन्ति हीति ॥ ४ ॥
यो वा ...... विज्ञायते ॥५॥ ___ अथ च विज्ञायते यो वै यजमानोन्यगोत्रस्सन् अथान्यगोत्रस्यायेण प्रवृणीते स ऋषिरस्य यजमानस्य तदिष्टं यागफलं वीतं ब्राह्मणतर्पणादिफलं वृते गृह्णातीति ॥५॥
त्रीन् वृणीते ...... विज्ञायते ॥६॥ है त्रीन् मन्त्रकृतो मन्त्रदृशो वृणीते, मन्त्राणां करणाप्रसक्तः करणे चानित्यत्वप्रसङ्गात् । यो यो यस्य यस्य ऋषिः यर्षि मन्त्रदृशो वृणीत इति विज्ञायते श्रूयते शाखान्तरे ॥६॥
अथ ...... विज्ञायते ॥७॥ अथैकेषां शाखिनां श्रुतौ श्रूयते-एकमाणेयं वृणीते, एकमृषि संकीर्त्य तदपत्यमग्निं वृणीते । तथा द्वौ वृणीते त्रीन्वणीते इत्यत्रापि । चतुरो न वृणीते । पञ्चातीत्य षडादीन्न वृणीते । अयमर्थः-आर्षेयवरणस्य मन्त्रटक्त्वं विशेषणत्वेनोक्तमधस्तात् । अतश्चात्मीयानां मन्त्रदृशां यथेष्टसङ्ख्याकानामनियमेन वरणप्राप्तौ सत्यां ' न चतुरो वृणीते ' 'न पञ्चातिवृणीते ' इति चतुर्णामतिपञ्चानां च वरणप्रतिषेध इति वर्णयन्ति । तत्र 'आर्षेयं वृणीते' इति विहिते वरणे ‘एकं वृणीते द्वौ वृणीते त्रीन् वृणीते' इति सङ्ख्या विदधाति वाक्यत्रयमस्यां श्रुताविति कृत्वा