________________
प्रवरमञ्जरी.
1
कल्पसूत्रकारा इमामेव श्रुतिमवलम्ब्य प्रवर्तन्ते । या तु पूर्वोदाहृता श्रुतिः ' त्रीन्वृणीते मन्त्रकृतो वृणीते यथर्षिमन्त्रकृतो वृणीते' इति तत्र त्रीन्वृणीत इत्येतावन्मात्रं विधिः । इतरेषां कश्चिदुपक्रमः कश्चिदवयुत्यानुवादः कश्चित्प्रतिषेध इति मत्वैनामेव श्रुतिमवलम्ब्य न्यायविद्भिराचार्यैरधिकारलक्षणे षष्ठेऽध्याये त्रयार्षे - यस्यैवाधिकारो निरूपितः " अत्रचार्षेयस्य हानं स्यादधिकारात् " * इत्यत्र । कल्पसूत्रकाराणां च बहुत्वात्प्रयोगशास्त्रकारत्वाच्च जैमिनेरेकत्वादेकस्य बहूनां मतविरोधे सति बहूनां मतमनुसर्तव्यमिति मत्वा प्रयोगार्थिनो वैदिकप्रयोगशास्त्रकारानेवानुगता इति ॥ ७॥
२०.
इतः विज्ञायते ॥ ८ ॥
इदं सूत्रं महाप्रवरभाष्ये व्याख्यातमिति न व्याख्यायते । इदं सूत्रं शाखान्तरीयं श्रुतिवाक्यमिति मन्तव्यं, विज्ञायते इति प्रयोगात् ॥ ८ ॥
पुरोहितस्य विज्ञायते ॥ ९ ॥
......
***.
पुरोहितः पुर एनं क्षत्रियमभिषिक्तं वैश्यं वा नयतीति पुरोहितः क्षत्रियवैश्ययोः दार्विहौमिकोभिजनविद्यावृत्तादिगुणसम्पन्नः । तस्य हि प्रवरेण राजाऽभिषिक्तः प्रवृणीते । दर्शपूर्णमासयोः अत्र च वचनाद्ब्राह्मणोपि राज्यं प्राप्तः पुरोहितप्रवरेणैव प्रवृणीत इति । इदमपि सूत्रं शाखान्तरीयं श्रुतिवाक्यमेवेति मन्तव्यं, विज्ञायत इत्युक्तत्वादिति ॥९॥
इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमञ्जर्यां आपस्तम्बसत्याषाढादिसूत्रोक्त गोत्रप्रवरकाण्डानामाद्यं परिभाषासूत्रकाण्डं व्याख्यातम्.
*मीमांसा. ६-१-४३. भाष्यधृतसूत्रपाठे अधिकारादित्यंशो न दृश्यते.