________________
१८
प्रवरमअरी.
इत्यापस्तम्बाद्युक्तगोत्रप्रवरसूत्रकाण्डानामाद्यं परिभाषासूत्रकाण्डमुदाहृतम् ॥
____ अथेदानीं आपस्तम्बाद्युक्तसूत्रस्य भाष्यकारधूर्तस्वामिकपर्दिस्वामिगुहदेवस्वामिप्रभृतीनां मतानुसारेणेदं काण्डं व्याख्यास्यामः ॥
नित्यं नैमित्तिकं काम्यं कर्मोक्तं त्रिविधं श्रुतौ । तदङ्गगोत्रप्रवरास्सर्वे नोक्ता विभागशः ॥ कर्माधिकारस्सर्वेषां गोत्रप्रवरहेतुकः । विवाहश्चेति मन्वानः प्रवरानाह सूत्रकृत् ॥ समानगोत्रप्रवरां कन्यामू छोपगम्य च । तस्यामुत्पाद्य चण्डालं ब्राह्मण्यादेव हीयते ॥ यतस्ततोहं प्रवरान् गोत्रैस्सर्वैस्सहाधुना । वक्ष्ये ब्राह्मण्यरक्षार्थमित्याचार्योब्रवीदिमान् ॥
प्रवरान्व्याख्यास्यामः ॥ १॥* इत्येतत्सूत्रं महाप्रवरभाष्ये कृतव्याख्यानमिति न व्याख्यातम् ॥१॥
आर्षेयं ...... विज्ञायते ॥२॥
आर्षेयमृष्यपत्यसम्बन्धमात्मनो वृणीते । अथवा आर्षेयमृषेरपत्यमाहवनीयमग्निं यजमानेनोत्पादितत्वाद्यजमानस्य ऋषिसन्तानत्वात् तं वृणीते प्रार्थयते तद्गोत्रतयेति । एवं सति बन्धोरेव नैति । पूर्वर्षिसम्बन्धान च्यवते इत्यर्थः । अथो अ-पि च सन्तत्यै पूर्वेषामात्मनश्च सन्तानायेति ॥ २ ॥
न देवैः ...... विज्ञायते ॥ ३॥ अपि च विज्ञायते श्रूयते शाखान्तरे । न देवैः प्रजाप
*सत्रानन्तरं तदर्थे होतृप्रवरा अध्वर्युप्रवराश्चानुक्तत्वाद्वक्ष्यन्ते ॥ प्रज्ञातबन्धूनां यैरग्नि
बियते ते प्रवराः, तानेतान्विस्तरेण प्रवरान्प्रपञ्चेन वक्ष्यामः ॥ इति कपर्दिभाष्ये विशेषः.