________________
परिभाषाकाण्डम्.
..:१७
अथेदानीमापस्तम्बाद्युक्तप्रवराध्यायसूत्रकाण्डानामाद्यं परिभाषासूत्रकाण्डमुदाहरिष्यामःप्रवरान्व्याख्यास्यामः॥१॥
आर्षेयं वृणीते बन्धोरेव नैत्यथो संतत्या इति विज्ञायते ॥ २॥
न देवैर्न मनुष्यैराणेयं वृणीत ऋषिभिरेवार्षेयं वणीत इति विज्ञायते ॥३॥
आर्षेयमन्वाचष्ट ऋषिणा हि देवाः पुरुषमनुबुध्यन्त इति विज्ञायते ॥ ४ ॥
यो वाऽन्यस्सन्नथान्यस्यायेण प्रवृणीते स वा अस्य तदृषिरिष्टं वीतं वृते इति विज्ञायते ॥ ५ ॥
त्रीन वृणीते मन्त्रकृतो वृणीते यथर्षि मन्त्रकृतो वृणीत इति विज्ञायते ॥ ६ ॥
अथैकेषामेकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरो वृणीते न पञ्चाति वृणीते इति विज्ञायते ॥
इत ऊर्ध्वानध्वर्युर्वृणीतेऽमुतोर्वाचो होतेति विज्ञायते ॥८॥ __पुरोहितस्य प्रवरेण राजा प्रवृणीत इति विज्ञायते ॥ ९ ॥