________________
प्रवरमअरी. दयोपि सप्तर्षिबाह्याः गोत्रशब्दं प्रयुञ्जते-मित्रयुवगोत्रोहमित्येवम् । इत्थं भ्रान्तिनिमित्तां प्राप्तिमपेक्ष्य पर्युदासः कृतः ‘अन्यत्र भृग्वङ्गिरसां गणात्' इति ॥
अथवा पर्युदासस्य प्राप्त्यपेक्षव नास्ति, एकवाक्यत्वात् । यथा “ यज्ञेषु येयजामहं करोति नानूयाजेषु येयजामहं करोति" इत्यत्रैकवाक्यत्वात् पर्युदास इत्युक्तं “अपि तु वाक्यशेषत्वादितरपर्युदासस्स्यात्प्रतिषेधे विकल्पस्स्यात् "* इति बाधलक्षणे तद्वत् ।।
जमदग्निगौतमभरद्वाजानां त्रयाणां भृग्वङ्गिरसामपि सतामगस्त्याष्टमसप्तर्ण्यन्त वादेव गोत्रत्वसिद्धेः समानगोत्रत्वं युक्तमेवेति न तत्रायं पर्युदासः । इममेव च पर्युदासाभिप्रायं उपरिष्टात् बोधा. यनः स्वयमेव दर्शयिष्यति-' वत्सा विदा आर्टिषेणा इत्येतेषामविवाहः,' 'गौतमानां सर्वेषामविवाहः,' 'भरद्वाजानां सर्वेषामविवाहः,' इति त्रिभिरेभिस्सूत्रैः । ये तु सप्तमेपत्यबाह्याः वीतहव्यशुनकवाध्रयश्ववैन्यहरितकुत्सकण्वरथीतरमुद्गलविष्णुवृद्धाद्याः तद्विषयमिदं सूत्रत्रयमधस्तादुक्तं, 'भृग्वङ्गिरसो भिन्नविवाहं कुर्व ते न चेसमानार्षेया बहवस्स्युः' इति, 'चार्षयसन्निपातेऽविवाहस्त्र्यापैयाणां त्र्यायसन्निपातेऽविवाहः पञ्चोपैयाणाम् ' इति । इति करणमध्यायसमाप्तिद्योतनार्थम् ॥
इति श्रीबोधायनीये महाप्रवराध्याये द्वितीयोध्यायः. इति पुरुषोत्तमपण्डितविरचितायां सर्वगोत्रप्रवरमञ्जयाँ बोधायनीयमहाप्रवराध्यायसूत्रकाण्डानामाद्यं परिभाषासूत्रकाण्डं समाप्तम्.
*मीमां १०-८-४ भाष्ये तु-“अपितु वाक्यशेषस्स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशस्स्यात् " इत्येव सूत्रं पश्यते.