________________
महाप्रवराध्यायः.
णमेतमेवार्थं स्पष्टीकरोति - " त्रयो वा अग्नयो हव्यवाहनो देवान कव्यवाहनः पितॄणां सह रक्षा असुराणां त एतर्ह्याशंसन्ते मां वरिष्यते मामिति वृणीध्वं हव्यवाहनमित्याह य एव देवानां तं वृणीत आर्षेयं वृणीते बन्धोरेव नैत्यथो संतत्यै " * इति । अत्रापि ' हव्यवाहनं ' ' तं ' ' आर्षेयं' इति च तत्रतत्र द्वितीयानिर्देशात् अरेव वरितव्यतां प्रतीमः । तथा वाजसनेयिनां प्रवरविधिपरं ब्राह्मणमेतमेवार्थं प्रतिभासयति — 'अथार्षेयं प्रवृणीत ऋषिभ्यचैवैनमेतद्देवेभ्यश्च निवेदयत्ययं महावीर्यो यो यज्ञं प्रापदिति तस्मादार्षेयं प्रवृणीते' इत्यादि अध्वर्युप्रवरविधिपरमिदं ब्राह्मणम् । अस्यायमर्थः— आर्षेयः ऋष्यपत्यमाहवनीयोग्निः—– जमानेनेोत्पादितत्वात्, यजमानस्य ऋषिसन्तानत्वात् तं वृणीते । किमर्थमित्याशङ्कय प्रयोजनमाह - " ऋषिभ्यश्चैवैनं यजमानं देवेभ्यश्च निवेदयत्ययं महावीर्यो यो यज्ञं प्रापत् " इति । यस्मादेवं प्रयोजनवान् प्रवरः तस्मादार्षेयं वृणीत इति । तस्मादाऽध्यायपरिसमाप्तेः होतृप्रवरैरध्वर्युप्रवरैश्च तेषां - तेषां मन्त्रदृशामपत्यसम्बन्धेन सादृश्यसम्बन्धेन चाग्निरेवाहवनीयः प्रार्थयते । तस्य प्रकर्षेण प्रार्थनानि तैस्तैर्मन्त्रदृग्भिः एकद्वित्रिपञ्चसञ्ज्याँकैः विशिष्टानि एकार्षेया द्वयार्षेयाः त्र्यार्षेयाः पञ्चार्षेयाः प्रवरा इत्युच्यन्ते ; न पुनः ऋषीणामेव मन्त्रदृशां प्रवरणानि प्रवरा इति ॥
नन्वेतस्मिन्प्रवरपदव्याख्याने सति बहूनि सूत्राणि वक्ष्यमाणानि विरुद्ध्यन्ते । कथं तथाहि सर्वे सूत्रकारा वक्ष्यन्ति 'इत ऊर्ध्वानध्वर्युर्वृणीते अमुतोर्वाचो होता वृणीते' इति । अत्र हि मन्त्रदृशमिवैकद्वित्रिपञ्चसङयाकानां ऋषीणां वरणकर्मता प्रतीयते, तेषां द्वितीयानिर्दिष्टत्वात्, नाग्नेराहवनीयस्य । तथा * तै. सं. २-५-८.