________________
प्रवरमञ्जरी.
‘ऊर्ध्वमासीनं होतारं वृणीते' 'अग्निर्देवानां होता देवान्यक्षत्' इत्यत्रापि होतुरेव वरणकर्मता प्रतीयते, नाग्नेः । तत्र कथमिवाविरोध इति ॥
अत्रब्रूमः — पूर्वापरानभिज्ञस्येदं चोद्यम् । कथं ? तथाहिसर्वे सूत्रकाराः ' इत उर्ध्वानध्वर्युर्वृणीते अमुतोर्वाचो होता ' इत्युक्त्वा अनन्तरं होतुरध्वर्योश्च प्रवरानाहुः - ' भार्गवच्यावना - नवानौर्वजामदग्नचेति होता वृणीते, जमदग्निवदूर्ववदमवानवन्चयवनवद्भृगुवदित्यध्वर्युः' इति । न ह्यत्र ऋषीणां वरणकर्मता - वगम्यते, तेषां तद्धितेन निर्देशात्; अध्वर्युप्रवरे च तद्वदिति वतिप्रयोगाच्च । तस्मात्तत्राप्यनेरेव वरणकर्मता वक्तव्येति पूर्वापराविरोधाय सूत्रान्तराविरोधाय च तानि वाक्यानि व्याचक्ष्महे — इत ऊर्ध्वानध्वर्युर्वृणीते । इतो यजमानात् ऊर्ध्वा - नृषीन् संकीर्त्य तद्वत्तद्वदिति तत्सादृश्यसम्बन्धेनाहवनीयं वृणीत इत्यर्थः । तथा अमुतोर्वाचो होता इत्यत्रापि तानेव संकीर्त्य तदपत्यसम्बन्धेन होताऽऽहवनीयमित्युभयत्राग्निरध्याहर्तव्यः । ऊर्ध्व मासीनं होतारम् इत्यत्रापि होतृशब्देनाहवनीय एवाग्निरभि - प्रेतः । कथं ? 'अग्निर्देवो होता देवान्यक्षत्' इत्यादिवाक्यशे षात् । 'अग्निर्देवो होतेति य एव देवानां तमवृणीत ततो देवा अभवन् ' * इति च ब्राह्मणमपि होतृशब्देन आहवनीयमेवोक्तं दर्शयति । तस्माद्यथोक्त एव प्रवरशब्दस्यार्थः ॥
ते च प्रवराः पुनरपि द्विविधाः समाना असमानाश्चेति । तत्र समानानां मन्त्रदृशां ऋषीणां नामसङ्ख्याक्रमैः समानाः प्रवरा येषां ते समानप्रवराः, यथा सार्वणिजीवन्तिजाबाल्यैतिशायनवैरोहित्यावटमण्डमाण्डव्य प्राचीनयोग्यमार्कण्डेयादिगोत्रप्रभेदानां भार्गवच्यावनानवानौर्वजामदग्रचेत्यस्य प्रवरस्य समानत्वात् समानप्र* तै, सं. २-५-११.