________________
प्रवरमञ्जरी.
र्मकाण्डादनन्तरं तदपेक्षितगोत्रसमानगोत्रसमानप्रवरतत्कृताविवाहतत्त्वज्ञानाय अतो हेतोः प्रवरान्व्याख्यास्यामः, यतस्तदभावे कर्माधिकारानुपपत्तिः, कर्मप्रकरणे तेषामनुक्तत्वात् । इत्यथातश्शब्दौ व्याख्यातौ । प्रवरान्व्याख्यास्यामः । सर्वेषां ब्राह्मणानां वक्ष्यमाणागस्त्याष्टमसप्तर्षिवंशपरंपराशाखोपशाखासहस्रप्रयुतार्बुदानेक - गोत्राणामाहितामीनां सतां प्रतिपुरुषमाहवनीयस्याग्नेहव्यवाहनाम्नः सप्तर्षीणामगस्त्याष्टमानामपत्यसम्बन्धेन तत्सादृश्यसम्बन्धेन वा प्रकर्षण वरणानि प्रार्थनानि प्रवराः । ते च होतुरध्वर्योश्च विहिता द्विप्रकाराः । होतुस्तावद्यथा वत्सानां भार्गवच्यावनाप्नवानौर्वजामदग्न्येतिपञ्चायप्रवरे पञ्चभिर्मन्त्रदृग्भिर्देवप्रसिद्धैः आहवनीयोग्निः संबोध्यते । तथा संबोधितोग्निदेवेभ्यो हव्यं वक्ष्यति नान्यथेति कृत्वा तमग्निं होता वृणीते प्रार्थयते । तथा तैरेव मन्त्रदृग्भिः पञ्चभिस्तद्विपर्ययक्रमेणागस्त्याष्टमसप्तमेपत्यक्रमेण सादृश्यसम्बन्धेन तमेवाहवनीयमग्निमध्वर्युतणीते प्रार्थयते, यथा जमदग्निवदूर्ववदनवानवच्च्यवनवद्भगुवदिति । अस्यायमर्थः—यथा जमदग्नचादयो योग्यतया भोज्यान्नतया च देवैतित्वाद्देवानुद्दिश्य त्वयि हविःप्रक्षेपयोग्याः, तथाऽयमपि यजमानो वत्सस्तदपत्यत्वात्तवोत्पादकत्वन पितृस्थानीयत्वाच्च त्वयि हविःप्रक्षेपयोग्य एवेत्याह । अध्वर्युप्रवरेऽपि स एवाहवनीयोग्निः प्रव्रियते प्रायते । इदमेव च प्रवरपदव्याख्यानं अग्निप्रकाशनार्थसामिधनीमन्त्रलिङ्गानि प्रवरविधायकब्राह्मणानि च दर्शयन्ति । तथाहि-सामिधेनीमन्त्रेषु "अग्निं दूतं वृणीमहे"* "वृणीध्वं हव्यवाहनम् "* इत्यादीनि मन्त्रलिङ्गान्याहवनीयस्याग्नेः प्रवरकर्मतां दर्शयन्ति, द्वितीयानिर्देशात् । तथा 'वृणीध्वं हाव्यवाहनम् '* इत्यस्यैव मन्त्रस्य व्याख्यानपरं तैत्तिरीयाणां दर्शपूर्णमासयोः प्रवरविधिपरं ब्राह्म
*तै. ब्रा. ३-५-२,