________________
अभिनवमाधवीयः.
तथा च प्रयोगपारिजाते आपस्तम्ब:
कश्यपो रेभरेभौ च शण्डिलो देवलोsसितः । सङ्कृतिः पूतिमापश्चावत्सारो निध्रुवो दश ॥
-
गोत्राणि कश्यपगणाः अन्योन्यं न करग्रहः ।
अस्यार्थः - संकृतिपूतिमाषौ बोधायनसूत्रे शुद्धाङ्गिरोगणे पठितौ कश्यपगणे च । आपस्तम्बसूत्रे वसिष्ठगणे पठितौ । अतस्तयोश्शुद्धाङ्गिरोभिः सङ्कृतिभिः कश्यपैर्वसिष्ठैश्च नान्वयः । अथ लोगाक्षिगण: आपस्तम्बसङ्ग्रहे पठितः -
अनष्टयोsराकुलयस्तातयो राजवारयः । शैराश्च क्षीरजाश्चापि बाहवस्तदनन्तरम् ॥ तथा चाशुचयः प्रोक्तास्सैरन्ध्रयो राजसेवकाः । खापुलिङ्गाश्च लोगाक्षिस्तथैव शरदम्बराः ॥ एते त्रयोदश प्रातर्वसिष्ठा निशि कश्यपाः । गायत्रयोनिसम्बन्धावङ्गीकृत्य प्रवर्तकाः ॥
तेषां गोत्रद्वयं मुक्त्वा वसिष्ठं कश्यपं तथा । सर्वत्रापि विवाहस्स्यादिति वेदविदो विदुः ॥
३४५
अस्यार्थः -- लोगाक्षिप्रभृतीनां त्रयोदशानां गायत्री सम्बन्धादहर्वसिष्ठत्वम् । योनिसम्बन्धान्निशि कश्यपत्वम् । तेषां वसिष्ठैः कश्यपैश्च विवाहो न । इतरैस्तु विवाह इष्टः ॥
इति वैदिकमार्गप्रतिष्ठा निष्ठवसिष्ठान्त्रयाभिनवमाधवागोत्रप्रवरनिर्णये सप्तमं प्रकरणम्.
चार्यो