________________
गोत्रप्रवरनिर्णयः. अथाष्टमे प्रकरणे वसिष्ठगोत्रकाण्ड उच्यते-- वसिष्ठकुण्डिनौ तद्वदुपमन्युपराशरौ ॥६६॥ चतुर्णामेकगोत्रत्वान्न विवाहः परस्परम् ।
वसिष्ठगणाश्चत्वारः; केवलवसिष्टाः कुण्डिनाः उपमन्यवः पराशराश्चति । तत्र केवलवसिष्ठानां, वासिष्ठेत्येकाणेयः प्रवरः । कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति व्यायः प्रवरः । उ. पमन्यूनां वासिष्ठेन्द्रप्रमदाभर सव्येति यायः प्रवरः । पराशराणां वासिष्ठशाक्त्यपाराशर्येति घ्यायः प्रवरः । एतेषां चतुर्णा गोत्रकर्तुर्वसिष्ठस्यानुवृत्तेस्समानप्रवरत्वात् न मिथो विवाहः ॥
__ अथ विशेष उच्यतेवसिष्ठैरत्रिभिश्चापि जातकर्ण्यस्य नान्वयः॥६७॥ लोगाक्षेस्सन्ते व वसिष्ठैः कश्यपैरपि ।
जातूकर्ण्यः अत्रेः पुत्र्यां विवाहात्पूर्व वसिष्ठवीर्योत्पन्नः । कन्यकानां दानेनान्यगोत्रं ; दानाभावे जनकगोत्रसेव । अतो जातूक
र्यः अत्रिगोत्रो वसिष्ठगोत्रश्च । अतस्तत्सन्ततेस्तस्य च वसिष्ठुरत्रिभिश्च नान्वयः; यामुष्यायणत्वात् । लोगाक्षेस्सङ्क्तेश्च वसिष्ठैः कश्यपैश्च न मिथो विवाहः ॥
तथा चापस्तम्बःवासिष्ठ इन्द्रप्रमदाभरद्वसुपराशराः । शक्तिश्चैवोपमन्युश्च मैत्रावरुण एव च ॥ कुण्डिनः पूतिमाषश्च गरिवीतश्च सतिः । जातूकर्ण्यश्च लोगाक्षिः इति प्रोक्तास्त्रयोदश ॥ एते वसिष्ठप्रभवा न विवाद्याः परस्परम् ।