________________
गोत्रप्रवरनिर्णयः,
कश्यपास्त्रिविधाः ; निध्रुवाः रेभा: शण्डिलाञ्चेति । निधुवाणां काश्यपावत्सारनैध्रुवेति व्यार्षेयः प्रवरः । रेभाणां काश्य पावत्साररैभेति त्र्यार्षेयः प्रवरः । शण्डिलानां काश्यपावसारशाण्डिल्येति वा काश्यपावत्सारदैवलोते वा काश्यपावत्सारासितेति वा शाण्डिल्यासितदैवलेति वा व्यार्षेयः प्रवरः । दैवलासितेति वा द्वयार्षेयः प्रबरः । एषां त्रयाणां गोत्रकर्तुः कश्यपस्यानुवृत्तेः ' एक एव ऋषिर्यावत्' इति परिभाषया च नान्योन्यमन्वयः समानगोत्रत्वात् । शण्डिलगोत्रस्य चतुर्थे प्रवरे कश्यपानुवृत्त्यभावेऽपि शण्डिलगोत्रस्य प्राक्तनप्रवरत्रयेऽपि कश्यपस्यानुवृत्तेर्विद्यमानतया अनुवृत्तिरस्ति । अस्मिन् व्यार्षेयप्रवरये काश्यपावत्सारयोरनुवृत्तेः समानमुनिभूयस्त्वात् त्रयाणां न मिथोऽन्वयः ॥
अथ विशेष उच्यते-
लोगाक्षिः कश्यपसुतो वसिष्ठेनोपनीतवान् । अहर्वसिष्ठो रात्रौ तु कश्यपस्तेन स स्मृतः ॥६५॥ नान्वियुस्तेन तद्वंश्या वसिष्ठैः कश्यपैरपि ।
लोग क्षिर्नाम कश्यपसन्तानः वसिष्ठेन कृतोपनयनः । तेनासा वहर्वसिष्ठो रात्रौ कश्यपो जातः । उपनयनं द्वितीयं जन्म | उपनयनस्य दिवा विहितत्वात् अहर्वसिष्ठत्वम् । निषेकस्य प्रथमजन्मनो रात्रौ जातत्वाश्च रात्रौ कश्यपत्वम् । अतस्तज्जानां वसिष्ठैः कश्यपैश्च नान्वयः । द्वयामुष्यायणत्वात् तेषां काश्यपावारवासिष्ठेति वा, वासिष्ठकाश्यपावत्साररोति वा त्र्यार्षेयः प्रवरः । अत एव भिन्नगोत्रे उपनीतस्य द्वयामुष्यायणत्वं, अहरुपदेष्ट्र रात्रौ निषेक्तुरिति । अत एव निधुवरेभशण्डिललोगाक्षीणां मिथो नान्वयः ॥