________________
अभिनवमाधवीयः.
३४१ भिश्च सह मिथो नान्वियुः । तथा चापस्तम्बः---- अत्रिजाश्चाथ वक्ष्यन्ते आत्रेयाश्चार्चनानसाः। तथा श्यावाश्वसंज्ञाश्च गविष्ठिरतदुद्भवाः ॥ ५८॥ धनञ्जया अतिथयो वामरथ्यास्तुमङ्गलाः । बैजवापिन इत्येते नवैवात्रिगणास्स्मृताः ॥ ५९ ।। मिथो विवाहं नार्हन्ति समानप्रवरा यतः।
अत्र्यायो नवात्रिगणाः । एतद्गणस्थानां परस्पर विवाहो न॥ इति वैदिकमार्गप्रतिष्ठानिष्ठवसिष्ठान्वयाभिनवमाधवो
वृतगोत्रप्रवरनिर्णये पञ्चमं प्रकरणम् .
अथ विश्वामित्रगोत्रकाण्ड उच्यते - कुशिका रौहिताश्चैव रोक्थकाः कामकायनाः॥६०॥ अजा धनञ्जयाश्चैव कताख्या इन्द्रकौशिकाः। . तथाऽघमर्षणाख्याश्च पूरणा इत्यमी दश ॥ ६ ॥ विश्वामित्रास्सगोत्रत्वानोदहेयुः परस्परम् ।
कुशिकादिविश्वामित्राणां प्रवरा उच्यन्ते-कुशिकानां वैश्वामित्रदैवरातौदलेति व्यायः प्रवरः । रोहितानां वैश्वामित्राटकरौहितेति व्यारेयः प्रवरः । रोक्थकानां वैश्वामित्ररौक्थकरैवतकोत घ्यायः प्रवरः । कामकायनानां वैश्वामित्रदेवश्रवसदैवतरसेति व्यायः प्रवरः । अजानां वैश्वामित्रमाधुच्छन्दसाजति त्र्यापेयः प्रवरः । धनञ्जयानां वैश्वामित्रमाधुच्छन्दसधान