________________
गोत्रप्रवरनिर्णयः,
अथात्रिगोत्रकाण्ड उच्यते
अत्रिर्गविष्ठिरश्चैव तथा बाहूदकादयः मुगलश्चेति चत्वारस्सगोत्रत्वान्न चान्वियुः ।
३४०
अत्रीणां आत्रेयार्चनानसश्यावाश्वेति त्र्यार्षेयः प्रवरः । गवि - ष्ठिराणां आत्रेयार्चनानसगाविष्टिरेति त्र्यार्षेयः प्रवरः । बाहूद कानां आत्रेयार्चनानसवाहदकेति व्यार्षेयः प्रवरः । सुहलानां आत्रेयार्चनानसपौर्वातिथेति त्र्यार्षेयः प्रवरः । एतेषु चतुर्षु प्रवरेषु गोत्रकर्तुरनुवर्तनात्समानप्रवरत्वम् । 'एक एव ऋषिर्या - वत्' इति परिभाषया ज्ञेयं, आर्चनानसत्यनुवर्तनाच्च । अतः सगोत्रत्वान्न विवाहः ॥
तत्र विशेषः कथ्यते
विश्वामित्रात्रिगोत्रैश्च नोहेयुर्धनञ्जयाः अस्तु पुत्रिकापुत्रा वामरथ्यादयस्तथा । तथैव जातूकर्ण्याश्च वसिष्ठैरत्रिभिस्तह
॥५५॥
अभ्रातृकां प्रदास्यामि तुझ्यं कन्यामलङ्कृताम् । अस्यां यो जायते पुत्रस्स मे पुत्रो भवेदिति ॥
॥५६॥
॥५७॥
वैश्वामित्रस्य वीजादात्रेयक्षेत्र उत्पन्नत्वाद्धनंजयो द्विगोलो भवति । विश्वामित्रगोत्रोऽत्रिगोत्रश्च शौङ्गशैशिरवद्भवति । अतस्तस्य तत्सन्ततेरत्रिभिर्विश्वामित्रैश्च न विवाहः ।
नियमपूर्वकं दत्तत्वात् । तस्यां कन्यायां वामरथ्यादय उत्यन्नाः । अतस्ते तत्सन्ततिजाश्च विश्वामित्रबीजत्वात् वैश्वामित्राश्च । अतस्तेऽपि द्वयामुष्यायणाः । अत्रिगोत्रजैर्विश्वामित्रगोत्रजैश्च नान्वियुः । एवं जातूकर्ण्याश्च द्वयामुष्यायणत्वाद्वासिष्ठैरत्रि