________________
३४२
गोत्रप्रवरनिर्णयः.
जयति व्यायः प्रवरः । कतानां वैश्वामित्रकात्याक्षीलेति त्र्यार्षेयः प्रवरः । इन्द्र कौशिकानां वैश्वामित्रैन्द्रकौशिकेति व्यायः प्रवरः । अघमर्षणानां वैश्वामित्राघमर्षणकौशिकोत व्यायः प्रवरः । पूरणानां वैश्वामित्रपरिणति द्वयार्षेयः प्रवरः । एषु दशसु प्रवरेषु गोत्रकर्तुर्विश्वामित्रस्यानुवर्तनात् ‘एक एव ऋषिर्यावत्' इति परिभाषया दशानां प्रवराणां समानगोत्रत्वम् । विश्वामित्राणां सर्वेषामविवाह इति बोधायनसूत्राञ्च परस्परमविवाहः । भृग्वकिरसोः गोत्रकर्तृत्वाभावात् तदनुवर्त नेऽप्यस्ति विवाहः । विश्वामित्रस्य गोत्रकर्तृत्वात् तद्गोत्राणां दशानामविवाहः । अस्मिन्नर्थे स्मृत्यर्थसारसङ्घहीतश्लोकः
जमदग्निर्भरद्वाजो विश्वामित्रात्रिगौतमाः ।
वसिष्ठः कश्यपोऽगस्त्यः मुनयो गोत्रकारिणः ॥ इति । बोधायनसूत्रेऽपि___विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः सप्तानां ऋषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याक्षते” इत्युक्तत्वात् विश्वामित्रो गोत्राधिकारी। विश्वामित्रादीनामगस्त्याष्टमानां गोत्रकर्तृत्वात् स्वस्वगणैर्न वि. वाहः । इतरैर्विवाहोऽस्त्येव ॥
अथ विशेषः कथ्यतेदेवरातं च पनसं विनैषां जमदग्निभिः ॥२॥ विवाह इष्यते तद्भरद्वाजैः कतादिकान् । धनञ्जयं वामरथ्यमुखान हित्वा तथाऽत्रिभिः॥६३॥
देवरातः पनसश्च जामदग्नचौ विश्वामित्रेण पालितत्वाद्वैश्वामित्रौ । अतो जामदग्नयैर्विश्वामित्रैश्च न विवाह्यौ तौ विहाय :