________________
गर्गभरद्वाजकुलविवाहविचार:, २.३ एतेषां तु विशेषोयं आमहाय्याभिधानकैः ।
औरुक्षय्यैश्च कपिभिः विवाहस्त्रिमिरिष्यते ॥ इति ॥ अत्रापस्तम्बकारिका
नातः परेषां हरितादधस्तान्मिथो विवाहस्तु कपेर्न चास्य ॥ 'कपिना तु चान्यथा' इति. पाठान्तरम् । ग्रन्थान्तरे
कपिप्रसिद्धावुदिताविह द्वौ स्वतन्त्र एकोस्त्यपरोऽस्वतन्त्रः । तत्र स्वतन्त्रस्य कविाहं मिथो भरद्वाजकुलेन चाहुः इति ॥ आङ्गीरसाश्चाम्बरीषयौवनाश्वहरीतकाः । मान्धाता चैव कौत्स्ताश्च पैङ्गाश्चतदनन्तरम् ॥ शङ्खदर्भा हैमगवा एते हरितगोत्रजाः । मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥ अत्र कारिकाप्रागाजिमीढात् शिनितः परेषां आङ्गीरसानां न मिथो विवाहः ।
इति ॥ गौतमभरद्वाजहरितगणानुक्ता तदुत्तरं 'आङ्गिरसा आजिमीढा' इत्यारभ्य
चतुर्दशैते विख्याताः पृथग्गोत्रप्रवर्तकाः ।।
मिथो विवाहं नार्हन्ति समानप्ररा यतः ॥' इत्यन्तेन कण्वविरूपमुद्गलविष्णुवृद्धगणानभिधाय तदुत्तरं एवं सप्तगणविधानात् । अत्र भरद्वाजगणान्तःपातित्वेन स्वतन्त्रकपिगणस्य भरद्वाजगणे प्रवरैस्सःमिथोविवाहसिद्ध्यर्थं पृथगुपादानम् । ततः आङ्गिरसगणानामपि गणाष्टकत्वात् अष्टसङ्ख्या विशिष्टत्वमप्युचितमेव । 'सप्तैते आङ्गिरसगणाः' इति ग्रन्थान्तरे कथनम् । कपिगणस्य भारद्वाजगणान्तःपातित्वाभिप्रायमित्युक्वा तदुत्तरं ग्रन्था