________________
२०४
गर्ग भरद्वाजं कुल विवाहविचारः.
न्तरेष्वित्यादिना विष्णुवृद्धगणप्रविष्टान् शाल्यप्रभृतीन् सप्तगोत्रप्रवर्तकान् मतभेदेनाभिधाय आजमीढादीनां चतुर्णां गणानां परस्परं विवाहोस्तीत्यस्मिन्नर्थे—
मिथोपि कुत्सात्परतश्चतुर्णां विवाहमिच्छन्ति कपर्दिशिष्याः इत्यापस्तम्बकारिकां प्रमाणमभिधाय
मिथो विवाह्यास्तुगणाः आद्यमाङ्गिरसं विना । .इत्यङ्गिरोगणसङ्गहः ॥
इत्यभिहितम् । ततश्चैतद्न्थोदाहृतापस्तम्बीय गणनिर्णायक विवाह विधि - निषेधैदंपर्यप्रवृत्तकारिकाऽवलोकनेन श्रौतापस्तम्बीय प्रवरखण्डघटकस्य " अथ भरद्वाजानां त्र्यार्षेयः आङ्गिरसबार्हस्पत्य भारद्वाज ' इत्यारभ्य ' अथ कपीनां त्र्यार्षेयः अथ गर्गाणां त्र्यार्षेयः आङ्गिरसगार्ग्य शैन्येति भारद्वाजगार्ग्य शैन्येति शिनिवत् गर्गवत्भरद्वाजवत्' इत्यन्तस्य ग्रन्थस्य कप्यन्तर्भावेन भारद्वाजगणप्रतिपादकत्वमेवेति निर्णीयते । अतश्चैतत्सूत्रकारस्यापिकपीनां भारद्वाजगणप्रविष्टत्व एव तात्पर्यम् । आश्वलायनसूत्र व्याख्यायां नारायणवृत्तौ — सप्तषीण अगस्त्याष्टमानां आपत्यतया ये स्मर्यन्ते ते तोत्रमित्युच्यते । यथा जमदग्नेर्गोत्रं वत्सादयः तथा गौतमस्या यास्यादयः भरद्वाजस्य ऋगर्गादयः तथा अत्र्यादीनां स्वस्ववयि इत्यनेन गर्गाणां भरद्वाजापत्यत्वनिश्चयेन तत्रैव गर्गप्रवराभिधानावसरे गर्गाणां पञ्चार्षेयस्त्र्यार्षेयो वा प्रवरोविकल्पेन भवति व्यवस्थया गर्ग भेदानवगमादित्युक्तम् । एते च भारद्वाजाः ऋक्षाणाममिवेश्यानां कपीनां भरद्वाजानां गर्गाणां च भारद्वाजत्वात् सर्वेषां च परस्परमविवाह इयुक्त्या, स्मृत्यर्थसारे च जमदग्रिगणमारभ्य एतद्र केषाञ्चिद्भरद्वाजापत्यत्वप्रयुक्तगोत्रैक्यादविवाहः
raटकानां
केषां
चित्प्रवरैक्यादविवाह इति प्रतिपादनावसरे