________________
गर्ण भरद्वाज कुलविवाह विचारः.
वस्तुतस्तु - विद्यारण्यस्वामिकृतनिबन्धेन स्मृतिसङ्ग्रहे 'अथ गोत्रप्रवरनिर्णयः' इत्यारभ्य गोत्रलक्षणमुक्ता
२०२
K
मुनिप्रणीतप्रवरान् ब्रूमः पञ्चाशता वयम् । अनन्तान्यपि गोत्राणि वर्गीकृत्य वदामहे || आपस्तम्बोदितान शेषान् विकीर्णान् प्रवरानहम् । द्विजातीनां हितार्थाय सङ्गृह्णामि पृथक्पृथक् ॥
इति प्रतिज्ञाय 'भृगवो जामदग्न्याश्च' इत्यादिना 'मिथो विवाहं नार्हन्ति समानप्रवरा यतः' इत्यन्तेन भृगुगणं समाप्य ' अथाङ्गिरोगणः
आङ्गीरसास्तथाऽऽयास्या उचत्थ्या औशिजास्तथा । काक्षीवता वामदेवाः बृहदुक्थाश्च सप्तमाः ॥ एते गौतमसंज्ञास्स्युः भिन्नप्रवरजा अपि । समानप्रवरत्वेन व्यवहारादितां गताः ॥ मिथो विवाहं नार्हन्ति समानप्रवरा यतः । अत्रापस्तम्बकारिका -
आङ्गिरसानां तु भृगोः परेषां आबार्हदुक्थान्नमिथो विवाहः । इति ॥
आङ्गिरसाः बार्हस्पत्याः भारद्वाजास्तथैव च । कुक्कश्चैवाग्निवेश्यश्च तथोर्जायन संज्ञिकाः ॥ तथैव मातवचसः तथैव कपयोपि च । गर्गाश्च कपयश्शैन्या एते एकोनविंशतिः ॥ कपयोपि भरद्वाजास्स्युस्सम्बन्धित्वसम्भवात् । मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥