________________
१४०
षीणां मन्त्रार्थवादेतिहासपुराणादिषु दर्शनादिति पूर्वत्र । एतावन्त एव प्रवरा इति पूर्वाचार्य दर्शनादित्युत्तरत्र । तस्मात्साधूक्तम् - गोत्राणां तु सहस्राणीति ॥
अत्र श्लोकाः
प्रवरमञ्जरी.
पुपूरयिषवस्स्वोक्तं गोत्रकोटित्रयं बुधाः । तत्रतत्र प्रतिगणमितिशब्द प्रयुञ्जते ॥ एवमादीनि गोत्राणीत्येवमर्थमिह स्थितम् । ग्राहयन्नितिशब्दोयमर्थवानेव नान्यथा ॥ इति ज्ञात्वाऽधिकशतमितिशब्द प्रयुञ्जते । ऊनपञ्चाशदेवेति स्वोक्तप्रवरसंख्यया ॥ तस्मात्साधूक्तमेवैतत्सूत्रकारैरिति स्थितम् ।
' विश्वामित्रो जमदग्निः' इत्यादिना गोत्रलक्षणमाह । न ह्यविज्ञाते गोत्रस्वरूपे ससानगोत्रतासिद्धिः । यदपत्यमित्यत्रापत्यग्रहणमपत्यसामान्याभिप्रायम् । एतदुक्तं भवति - अगस्त्याष्टमस - तर्षीणां मध्ये यस्ययस्य सप्तर्षेरपत्यापत्यसन्ततिपरम्पराशाखोपशाखाप्रभवं यद्यदपत्यमृषित्वं प्राप्तं तत्सस्य गोत्रमित्युच्यत इति । यथाविश्वामित्रगोत्राणि देवरातादीनि कतान्तान्यपत्यानि । जमदग्निगोत्राणि मार्कण्डेयादीनामपत्यानि । भरद्वाजस्य क्षम्यायणादीन्यपत्यानि द्रष्टव्यानि ! अपरे तु विपरीतं गोत्रलक्षणमाहुः - अगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्युच्यत इति । यथा - देवरातादीनां गोत्रं विश्वामित्रः । मार्कण्डेयादीनां जमदनचादीनि गोत्राणीति । एतदुक्तं भ वति — अगस्त्याष्टमसप्तर्षीणामष्टौ ऋषयोष्ट गोत्राणि सर्वेषामन्येषा - मिति । महाजनव्यवहारश्चैतदेव गोत्रलक्षणं सूचयति विश्वामित्रगोत्रा वयं अत्रिगोत्रा वयं भरद्वाजगोत्रा वयमित्येवमादि । पूर्वव्याख्याने व
--